Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1621
ऋषिः - मधुच्छन्दा वैश्वामित्रः देवता - इन्द्रः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
7

स꣡ नो꣢ वृषन्न꣣मुं꣢ च꣣रु꣡ꣳ सत्रा꣢꣯दाव꣣न्न꣡पा꣢ वृधि । अ꣣स्म꣢भ्य꣣म꣡प्र꣢तिष्कुतः ॥१६२१॥

स्वर सहित पद पाठ

सः । नः꣣ । वृषन् । अमु꣢म् । च꣣रु꣢म् । स꣡त्रा꣢꣯दावन् । स꣡त्रा꣢꣯ । दा꣣वन् । अ꣡प꣢꣯ । वृ꣣धि । अस्म꣡भ्य꣢म् । अ꣡प्र꣢꣯तिष्कुतः । अ । प्र꣣तिष्कुतः ॥१६२१॥


स्वर रहित मन्त्र

स नो वृषन्नमुं चरुꣳ सत्रादावन्नपा वृधि । अस्मभ्यमप्रतिष्कुतः ॥१६२१॥


स्वर रहित पद पाठ

सः । नः । वृषन् । अमुम् । चरुम् । सत्रादावन् । सत्रा । दावन् । अप । वृधि । अस्मभ्यम् । अप्रतिष्कुतः । अ । प्रतिष्कुतः ॥१६२१॥

सामवेद - मन्त्र संख्या : 1621
(कौथुम) उत्तरार्चिकः » प्रपाठक » 8; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 2; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 17; खण्ड » 1; सूक्त » 2; मन्त्र » 2
Acknowledgment

पदार्थः -
हे (वृषन्) सुखवर्षक, (सत्रादावन्२) युगपद् दानप्रद सत्यप्रेरक सृष्टियज्ञसम्पादक वा जगदीश्वर ! (अप्रतिष्कुतः) असञ्चलितः।[अप्रतिष्कुतः अप्रतिष्कृतोऽप्रतिस्खलितो वेति निरुक्तम् (६।१६)।] (सः) असौ त्वम् (अस्मभ्यम्) त्वदाज्ञायां पुरुषार्थे च वर्तमानेभ्यः उपासकेभ्यः (अमुं चरुम्) सूर्यप्रतिबन्धकं मेघमिव एतं मोक्षमार्गप्रतिबन्धकं कदाचारादिकम्। [चरुरिति मेघनाम। निघं० १।१०।] (अपावृधि) दूरीकुरु ॥२॥३

भावार्थः - यथा सूर्यः स्वप्रकाशसञ्चारबाधकं मेघकपाटमपावृत्य भूमण्डलं प्रकाशयति तथैव जगदीश्वरोऽस्माकं मोक्षबाधकमविद्यादुष्कर्मादिक- मपसार्यास्मान् मोक्षं प्रापयति ॥२॥

इस भाष्य को एडिट करें
Top