Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1631
ऋषिः - रेभसूनू काश्यपौ देवता - पवमानः सोमः छन्दः - अनुष्टुप् स्वरः - गान्धारः काण्ड नाम -
5

अ꣡ध꣢ क्ष꣣पा꣡ परि꣢꣯ष्कृतो꣣ वा꣡जा꣢ꣳ अ꣣भि꣡ प्र गा꣢꣯हसे । य꣡दी꣢ वि꣣व꣡स्व꣢तो꣣ धि꣢यो꣣ ह꣡रि꣢ꣳ हि꣣न्व꣢न्ति꣣ या꣡त꣢वे ॥१६३१॥

स्वर सहित पद पाठ

अ꣡ध꣢꣯ । क्ष꣣पा꣢ । प꣡रि꣢꣯ष्कृतः । प꣡रि꣢꣯ । कृ꣣तः । वा꣡जा꣢꣯न् । अ꣡भि꣢ । प्र । गा꣣हसे । य꣡दि꣢꣯ । वि꣣व꣡स्व꣢तः । वि꣣ । व꣡स्व꣢꣯तः । धि꣡यः꣢꣯ । ह꣡रि꣢꣯म् । हि꣣न्व꣡न्ति꣢ । या꣡त꣢꣯वे ॥१६३१॥


स्वर रहित मन्त्र

अध क्षपा परिष्कृतो वाजाꣳ अभि प्र गाहसे । यदी विवस्वतो धियो हरिꣳ हिन्वन्ति यातवे ॥१६३१॥


स्वर रहित पद पाठ

अध । क्षपा । परिष्कृतः । परि । कृतः । वाजान् । अभि । प्र । गाहसे । यदि । विवस्वतः । वि । वस्वतः । धियः । हरिम् । हिन्वन्ति । यातवे ॥१६३१॥

सामवेद - मन्त्र संख्या : 1631
(कौथुम) उत्तरार्चिकः » प्रपाठक » 8; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 6; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 17; खण्ड » 2; सूक्त » 2; मन्त्र » 1
Acknowledgment

पदार्थः -
हे मानव ! (यदि) यदा (विवस्वतः) तमोगुणान् विवासनवतः परमेश्वरस्य (धियः) प्रज्ञाः (हरिम्) मनुष्यं त्वाम्। [हरयः इति मनुष्यनामसु पठितम्। निघं० २।३।] (यातवे) यातुम्, पुरुषार्थं कर्तुम् (हिन्वन्ति) प्रेरयन्ति, तदा (क्षपा) क्षपया, परमेश्वरस्य दोषक्षपणशक्त्या (परिष्कृतः) संस्कृतः त्वम् (वाजान्) विविधानि ऐश्वर्याणि (अभि प्रगाहसे) अभ्यालोडयसि, तेषु ऐश्वर्येषु रमसे इत्यर्थः। [गाहू विलोडने, भ्वादिः] ॥१॥

भावार्थः - आत्मशुद्ध्या पुरुषार्थेनैव च मनुष्या विविधाः सम्पदः प्राप्तुं क्षमन्ते ॥१॥

इस भाष्य को एडिट करें
Top