Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1632
ऋषिः - रेभसूनू काश्यपौ देवता - पवमानः सोमः छन्दः - अनुष्टुप् स्वरः - गान्धारः काण्ड नाम -
3

त꣡म꣢स्य मर्जयामसि꣣ म꣢दो꣣ य꣡ इ꣢न्द्र꣣पा꣡त꣢मः । यं꣡ गाव꣢꣯ आ꣣स꣡भि꣢र्द꣣धुः꣢ पु꣣रा꣢ नू꣣नं꣡ च꣢ सू꣣र꣡यः꣢ ॥१६३२॥

स्वर सहित पद पाठ

तम् । अ꣣स्य । मर्जयामसि । म꣡दः꣢꣯ । यः । इ꣣न्द्रपा꣡त꣢मः । इ꣣न्द्र । पा꣡त꣢꣯मः । यम् । गा꣡वः꣢꣯ । आ꣣स꣡भिः꣢ । द꣣धुः꣢ । पु꣣रा꣢ । नू꣣न꣢म् । च꣣ । सूर꣡यः꣢ ॥१६३२॥


स्वर रहित मन्त्र

तमस्य मर्जयामसि मदो य इन्द्रपातमः । यं गाव आसभिर्दधुः पुरा नूनं च सूरयः ॥१६३२॥


स्वर रहित पद पाठ

तम् । अस्य । मर्जयामसि । मदः । यः । इन्द्रपातमः । इन्द्र । पातमः । यम् । गावः । आसभिः । दधुः । पुरा । नूनम् । च । सूरयः ॥१६३२॥

सामवेद - मन्त्र संख्या : 1632
(कौथुम) उत्तरार्चिकः » प्रपाठक » 8; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 6; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 17; खण्ड » 2; सूक्त » 2; मन्त्र » 2
Acknowledgment

पदार्थः -
(अस्य) अस्य स्तोतुर्मनुष्यस्य (यः इन्द्रपातमः) इन्द्रेण परमेश्वरेण अतिशयेन पातव्यः (मदः) हर्षकरः भक्तिरसः अस्ति (तम् मर्जयामसि) शोधयामः, परिष्कुर्मः, (यम् पुरानूनं च) प्राक्काले अद्य चापि (सूरयः) विपश्चितः (गावः) स्तोतारः।[गौरिति स्तोतृनामसु पठितम्। निघं० ३।१६।] (आसभिः) मुखैः(दधुः) प्रकटयन्ति ॥२॥

भावार्थः - आडम्बररहिता निश्छला शुद्धैवोपासना जगदीश्वरस्य स्वीकृता भवति ॥२॥

इस भाष्य को एडिट करें
Top