Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1646
ऋषिः - गोषूक्त्यश्वसूक्तिनौ काण्वायनौ
देवता - इन्द्रः
छन्दः - उष्णिक्
स्वरः - ऋषभः
काण्ड नाम -
4
त꣢व꣣ द्यौ꣡रि꣢न्द्र꣣ पौ꣡ꣳस्यं꣢ पृथि꣣वी꣡ व꣢र्धति꣣ श्र꣡वः꣢ । त्वा꣢꣫मापः꣣ प꣡र्व꣢तासश्च हिन्विरे ॥१६४६॥
स्वर सहित पद पाठत꣡व꣢꣯ । द्यौः । इ꣣न्द्र । पौ꣡ꣳस्य꣢꣯म् । पृ꣣थिवी꣢ । वर्ध꣣ति । श्र꣡वः । त्वाम् । आ꣡पः꣢꣯ । प꣡र्व꣢꣯तासः । च । हिन्विरे ॥१६४६॥
स्वर रहित मन्त्र
तव द्यौरिन्द्र पौꣳस्यं पृथिवी वर्धति श्रवः । त्वामापः पर्वतासश्च हिन्विरे ॥१६४६॥
स्वर रहित पद पाठ
तव । द्यौः । इन्द्र । पौꣳस्यम् । पृथिवी । वर्धति । श्रवः । त्वाम् । आपः । पर्वतासः । च । हिन्विरे ॥१६४६॥
सामवेद - मन्त्र संख्या : 1646
(कौथुम) उत्तरार्चिकः » प्रपाठक » 8; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 11; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 17; खण्ड » 3; सूक्त » 3; मन्त्र » 2
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 8; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 11; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 17; खण्ड » 3; सूक्त » 3; मन्त्र » 2
Acknowledgment
विषयः - अथ जगदीश्वरस्य महिमा वर्ण्यते।
पदार्थः -
हे (इन्द्र) जगदीश्वर ! (तव) त्वदीयम् (पौंस्यम्) पुंसि भवं पौंस्यं बलम् (श्रवः) यशश्च (द्यौः) द्युलोकः (पृथिवी) भूलोकश्च(वर्धति) वर्धयति, गायति। (त्वाम् आपः) नद्यः (पर्वतासः च) गिरयश्च (हिन्विरे) यशोगानेन वर्धयन्ति। [हि गतौ वृद्धौ च, स्वादिः] ॥२॥
भावार्थः - आदित्यः पर्जन्यो विद्युद् वायुः पृथिवी नद्यः पर्वताः समुद्रा वीरुधः ऋतवस्तारावलिर्मनुष्याः पशवः पक्षिणः सर्वे परमेश्वरस्यैव महिमानं गायन्ति, गायं गायं च न श्राम्यन्ति ॥२॥
इस भाष्य को एडिट करें