Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1647
ऋषिः - गोषूक्त्यश्वसूक्तिनौ काण्वायनौ
देवता - इन्द्रः
छन्दः - उष्णिक्
स्वरः - ऋषभः
काण्ड नाम -
5
त्वां꣡ विष्णु꣢꣯र्बृ꣣ह꣡न्क्षयो꣢꣯ मि꣣त्रो꣡ गृ꣢णाति꣣ व꣡रु꣢णः । त्वा꣡ꣳ शर्धो꣢꣯ मद꣣त्य꣢नु꣣ मा꣡रु꣢तम् ॥१६४७॥
स्वर सहित पद पाठत्वा꣢म् । वि꣡ष्णुः꣢꣯ । बृ꣡ह꣢न् । क्ष꣡यः꣢꣯ । मि꣣त्रः꣢ । मि꣣ । त्रः꣢ । गृ꣣णाति । व꣡रु꣢꣯णः । त्वाम् । श꣡र्धः꣢꣯ । म꣣दति । अ꣡नु꣢꣯ । मा꣡रु꣢꣯तम् ॥१६४७॥
स्वर रहित मन्त्र
त्वां विष्णुर्बृहन्क्षयो मित्रो गृणाति वरुणः । त्वाꣳ शर्धो मदत्यनु मारुतम् ॥१६४७॥
स्वर रहित पद पाठ
त्वाम् । विष्णुः । बृहन् । क्षयः । मित्रः । मि । त्रः । गृणाति । वरुणः । त्वाम् । शर्धः । मदति । अनु । मारुतम् ॥१६४७॥
सामवेद - मन्त्र संख्या : 1647
(कौथुम) उत्तरार्चिकः » प्रपाठक » 8; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 11; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 17; खण्ड » 3; सूक्त » 3; मन्त्र » 3
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 8; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 11; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 17; खण्ड » 3; सूक्त » 3; मन्त्र » 3
Acknowledgment
विषयः - अथ पुनः स एव विषय उच्यते।
पदार्थः -
हे इन्द्र ! हे परमसम्राट् जगदीश ! (त्वाम्) महाबलम् (विष्णुः) रश्मिभिर्व्यापनशीलः सूर्यः (बृहन् क्षयः) विस्तीर्णम् अन्तरिक्षरूपं गृहम्, (मित्रः) वायुः। [अयं वै वायुर्मित्रो योऽयं पवते। श० ६।५।७।१४।] (वरुणः) अग्निश्च [यो वै वरुणः सोऽग्निः। श० ५।२।४।१३।] (गृणाति) स्तौति। (मारुतं शर्धः) मरुतां वृष्टिपवनानां सैन्यमपि (त्वाम् अनु) तवैवानुकूल्येन(मदति) हृष्यति ॥३॥
भावार्थः - जगति ये केऽपि पदार्थाः स्वं स्वं कार्यं कुर्वन्ति ते सर्वेऽपि परमेश्वरादेव शक्तिं लभन्ते ॥३॥ अस्मिन् खण्डे जीवात्मनः परमात्मनश्च विषयाणां वर्णनादेतत्खण्डस्य पूर्वखण्डेन संगतिर्वेद्या ॥
इस भाष्य को एडिट करें