Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1648
ऋषिः - विरूप आङ्गिरसः देवता - अग्निः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
7

न꣡म꣢स्ते अग्न꣣ ओ꣡ज꣢से गृ꣣ण꣡न्ति꣢ देव कृ꣣ष्ट꣡यः꣢ । अ꣡मै꣢र꣣मि꣡त्र꣢मर्दय ॥१६४८॥

स्वर सहित पद पाठ

न꣡मः꣢꣯ । ते꣣ । अग्ने । ओ꣡ज꣢꣯से । गृ꣣ण꣡न्ति꣢ । दे꣣व । कृष्ट꣡यः꣢ । अ꣡मैः꣢꣯ । अ꣣मि꣡त्र꣢म् । अ꣣ । मि꣡त्र꣢꣯म् । अ꣣र्द꣡य ॥१६४८॥


स्वर रहित मन्त्र

नमस्ते अग्न ओजसे गृणन्ति देव कृष्टयः । अमैरमित्रमर्दय ॥१६४८॥


स्वर रहित पद पाठ

नमः । ते । अग्ने । ओजसे । गृणन्ति । देव । कृष्टयः । अमैः । अमित्रम् । अ । मित्रम् । अर्दय ॥१६४८॥

सामवेद - मन्त्र संख्या : 1648
(कौथुम) उत्तरार्चिकः » प्रपाठक » 8; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 12; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 17; खण्ड » 4; सूक्त » 1; मन्त्र » 1
Acknowledgment

पदार्थः -
हे (देव) दानादिगुणयुक्त (अग्ने) अग्रणीः परमात्मन् नृपते योगिराड् वा ! (ते ओजसे) तव बलाय प्रतापाय च(कृष्टयः) मनुष्याः (नमः गृणन्ति) नमः उच्चारयन्ति, तव बलं प्रतापं च प्रशंसन्तीत्यर्थः। त्वम् (अमैः) स्वकीयैः बलैः(अमित्रम्) योगमार्गे जीवनमार्गे वा समागच्छन्तं शत्रुम्(अर्दय) पीडय ॥१॥

भावार्थः - पदे पदेऽस्माकं निर्धारिते लक्ष्ये ये विघ्ना आगच्छन्ति ते परमेश्वरस्य प्रेरणया नृपतेः साहाय्येन योगप्रशिक्षकस्य च समुचितेन प्रशिक्षणेन सरलतयैव दूरीकर्तुं शक्यन्ते ॥१॥

इस भाष्य को एडिट करें
Top