Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1649
ऋषिः - विरूप आङ्गिरसः देवता - अग्निः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
10

कु꣣वि꣢꣫त्सु नो꣣ ग꣡वि꣢ष्ट꣣ये꣡ऽग्ने꣢ सं꣣वे꣡षि꣢षो र꣣यि꣢म् । उ꣡रु꣢कृदु꣣रु꣡ ण꣢स्कृधि ॥१६४९॥

स्वर सहित पद पाठ

कु꣡वि꣢त् । सु । नः꣣ । ग꣡वि꣢꣯ष्टये । गो । इ꣣ष्टये । अ꣡ग्ने꣢꣯ । सं꣣वे꣡षि꣢षः । स꣣म् । वे꣡षि꣢꣯षः । र꣣यि꣢म् । उ꣡रु꣢꣯कृत् । उ꣡रु꣢꣯ । कृ꣣त् । उरु꣢ । नः꣣ । कृधि ॥१६४९॥


स्वर रहित मन्त्र

कुवित्सु नो गविष्टयेऽग्ने संवेषिषो रयिम् । उरुकृदुरु णस्कृधि ॥१६४९॥


स्वर रहित पद पाठ

कुवित् । सु । नः । गविष्टये । गो । इष्टये । अग्ने । संवेषिषः । सम् । वेषिषः । रयिम् । उरुकृत् । उरु । कृत् । उरु । नः । कृधि ॥१६४९॥

सामवेद - मन्त्र संख्या : 1649
(कौथुम) उत्तरार्चिकः » प्रपाठक » 8; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 12; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 17; खण्ड » 4; सूक्त » 1; मन्त्र » 2
Acknowledgment

पदार्थः -
हे (अग्ने) अग्रनायक परमात्मन् राजन् योगिराड् वा ! त्वम् (नः) अस्माकम् (गविष्टये) गवाम् विविकेख्यातिप्रकाशानाम् इष्टये प्राप्तये, यद्वा गविष्टये गवेषणाय विविधविद्यासु अनुसन्धानाय(कुवित्) बहु (रयिम्) आध्यात्मिकमैश्वर्यं भौतिकं धनं वा (सु संवेषिषः) सम्यक् सम्प्रापय। [संपूर्वाद् विष्लृ व्याप्तौ धातोर्लेटि सिबागमे अडागमे मध्यमैकवचने रूपम्।] (उरुकृत्) बहुकर्ता त्वम् (नः) अस्मभ्यम् (उरु) बहु (कृधि) कुरु ॥२॥

भावार्थः - परमात्मनः कृपया योगप्रशिक्षकस्य च योग्येन मार्गदर्शनेन योगाभ्यासिनः शिष्या आध्यात्मिकं धनं प्राप्य मोक्षाधिकारिणो भवेयुः। नृपतिश्च विविधविज्ञानानामनुसन्धित्सून् वित्तं प्रापय्य राष्ट्रे विद्यासूर्योदये सहायको भवेत् ॥२॥

इस भाष्य को एडिट करें
Top