Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1650
ऋषिः - विरूप आङ्गिरसः
देवता - अग्निः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
5
मा꣡ नो꣢ अग्ने महाध꣣ने꣡ परा꣢꣯ वर्ग्भार꣣भृ꣡द्य꣢था । सं꣣व꣢र्ग꣣ꣳ स꣢ꣳ र꣣यिं꣡ ज꣢य ॥१६५०॥
स्वर सहित पद पाठमा꣢ । नः꣣ । अग्ने । महाधने꣢ । म꣣हा । धने꣢ । प꣡रा꣢꣯ । व꣣र्क् । भारभृ꣢त् । भा꣣र । भृ꣢त् । य꣣था । संव꣡र्ग꣢म् । स꣣म् । व꣡र्ग꣢꣯म् । सम् । र꣣यि꣢म् । ज꣢य ॥१६५०॥
स्वर रहित मन्त्र
मा नो अग्ने महाधने परा वर्ग्भारभृद्यथा । संवर्गꣳ सꣳ रयिं जय ॥१६५०॥
स्वर रहित पद पाठ
मा । नः । अग्ने । महाधने । महा । धने । परा । वर्क् । भारभृत् । भार । भृत् । यथा । संवर्गम् । सम् । वर्गम् । सम् । रयिम् । जय ॥१६५०॥
सामवेद - मन्त्र संख्या : 1650
(कौथुम) उत्तरार्चिकः » प्रपाठक » 8; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 12; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 17; खण्ड » 4; सूक्त » 1; मन्त्र » 3
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 8; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 12; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 17; खण्ड » 4; सूक्त » 1; मन्त्र » 3
Acknowledgment
विषयः - अथ पुनरपि त एव प्रार्थ्यन्ते।
पदार्थः -
हे (अग्ने) अग्रनायक परमात्मन् राजन् योगिराड् वा ! (महाधने) जीवनसंग्रामे। [महाधन इति संग्रामनामसु पठितम्। निघं० २।१७।] त्वम् (नः) अस्मान् (मा परावर्ग्) मध्य एव मा परित्याक्षीः। [वृजी वर्जने रुधादिः, लोडर्थे लुङि परावर्जीः इति प्राप्ते छान्दसं रूपम्।] (भारभृत् यथा) यथा गृहीतरक्षाभारो जनः रक्ष्यं मध्ये न परित्यजति, यद्वा यथा भारस्य स्थानान्तरप्रापणाय नियुक्तो जनो भारं मध्ये न परित्यजति। किञ्च, त्वम् (संवर्गम्) संवृज्यन्ते पापतापादयो येन तादृशम् (रयिम्) अध्यात्मं धनम् यद्वा (संवर्गम्) संवृज्यन्ते दीनजनानां दुःखानि येन तादृशम् (रयिम्) भौतिकं धनम्(संजय) संप्रापय ॥३॥
भावार्थः - ये परमात्मानं योगिराजं वा शरणं प्रपद्यन्ते तान् स मध्य एवाऽपरित्यज्य देवासुरसंग्रामे विजेतॄन् करोति। तथैव नृपतिरपि प्रजाजनान् प्रारब्धेषु महाकार्येषु मध्य एवाऽपरित्यज्य धनादिना तेषां साहाय्यं कृत्वा तान् सफलतां प्रापयेत् ॥३॥
इस भाष्य को एडिट करें