Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1651
ऋषिः - वत्सः काण्वः देवता - इन्द्रः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
9

स꣡म꣢स्य म꣣न्य꣢वे꣣ वि꣢शो꣣ वि꣡श्वा꣢ नमन्त कृ꣣ष्ट꣡यः꣢ । स꣣मुद्रा꣡ये꣢व꣣ सि꣡न्ध꣢वः ॥१६५१॥

स्वर सहित पद पाठ

स꣢म् । अ꣣स्य । मन्य꣡वे꣢ । वि꣡शः꣢꣯ । वि꣡श्वाः꣢꣯ । न꣣मन्त । कृष्ट꣡यः꣢ । स꣣मुद्रा꣡य꣢ । स꣣म् । उद्रा꣡य꣢ । इ꣣व । सि꣡न्ध꣢꣯वः ॥१६५१॥


स्वर रहित मन्त्र

समस्य मन्यवे विशो विश्वा नमन्त कृष्टयः । समुद्रायेव सिन्धवः ॥१६५१॥


स्वर रहित पद पाठ

सम् । अस्य । मन्यवे । विशः । विश्वाः । नमन्त । कृष्टयः । समुद्राय । सम् । उद्राय । इव । सिन्धवः ॥१६५१॥

सामवेद - मन्त्र संख्या : 1651
(कौथुम) उत्तरार्चिकः » प्रपाठक » 8; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 13; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 17; खण्ड » 4; सूक्त » 2; मन्त्र » 1
Acknowledgment

पदार्थः -
यथा (अस्य) इन्द्रस्य नृपतेः (मन्यवे) क्रोधाय (विश्वाः) सर्वाः (कृष्टयः) कर्षयित्र्यः (विशः) शत्रुसेनाः (सं नमन्त) संनमन्ति, तथैव (अस्य) इन्द्रस्य परमात्मनः (मन्यवे) तेजसे (विश्वाः) सर्वाः (कृष्टयः) योगाभ्यासरूपं कृषिकर्म कुर्वाणाः (विशः) प्रजाः (सं नमन्त) नम्रा भवन्ति, (समुद्राय इव) समुद्रं प्राप्तुं यथा (सिन्धवः) नद्यः (संनमन्त) नम्राः निम्नाभिमुखाः जायन्ते ॥१॥ अत्रोपमा श्लेषश्चालङ्कारः ॥१॥

भावार्थः - वरिष्ठः किल जगदीशस्य प्रतापः प्रभावो महिमा च यस्य पुरतः सर्वेऽपि नतमस्तका जायन्ते ॥१॥

इस भाष्य को एडिट करें
Top