Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1652
ऋषिः - वत्सः काण्वः
देवता - इन्द्रः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
2
वि꣡ चि꣢द्वृ꣣त्र꣢स्य꣣ दो꣡ध꣢तः꣣ शि꣡रो꣢ बिभेद वृ꣣ष्णि꣡ना꣢ । व꣡ज्रे꣢ण श꣣त꣡प꣢र्वणा ॥१६५२॥
स्वर सहित पद पाठवि꣢ । चि꣣त् । वृत्र꣡स्य꣢ । दो꣡ध꣢꣯तः । शि꣡रः꣢꣯ । बि꣣भेद । वृष्णि꣡ना꣢ । व꣡ज्रे꣢꣯ण । श꣣त꣡प꣢र्वणा । श꣣त꣢ । प꣣र्वणा ॥१६५२॥
स्वर रहित मन्त्र
वि चिद्वृत्रस्य दोधतः शिरो बिभेद वृष्णिना । वज्रेण शतपर्वणा ॥१६५२॥
स्वर रहित पद पाठ
वि । चित् । वृत्रस्य । दोधतः । शिरः । बिभेद । वृष्णिना । वज्रेण । शतपर्वणा । शत । पर्वणा ॥१६५२॥
सामवेद - मन्त्र संख्या : 1652
(कौथुम) उत्तरार्चिकः » प्रपाठक » 8; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 13; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 17; खण्ड » 4; सूक्त » 2; मन्त्र » 2
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 8; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 13; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 17; खण्ड » 4; सूक्त » 2; मन्त्र » 2
Acknowledgment
विषयः - अथ नृपतेः सेनापतेर्वा दृष्टान्तेन परमात्मनो वीरकर्मोच्यते।
पदार्थः -
(वृष्णिना) गोलिकावर्षकेण भुशुण्ड्यायुधेन, (शतपर्वणा)शतकीलकेन (वज्रेण) गदाऽऽयुधेन च यथा इन्द्रः शूरो राजा सेनापतिर्वा (दोधतः) सज्जनान् कम्पयतः (वृत्रस्य) दुष्टशत्रोः (शिरः) मूर्धानम् (वि बिभेद) चित् विभिनत्ति खलु, तथैव (वृष्णिना) सुखवर्षकेण (शतपर्वणा) बहुपालनकर्त्रा(वज्रेण) दण्डसामर्थ्येन (इद्रः) वीरः परमेश्वरः (दोधतः) कम्पयतः (वृत्रस्य) पापस्य (शिरः) शिर उपलक्षितं प्रभावम्(वि बिभेद चित्) विभिनत्ति एव ॥२॥
भावार्थः - परमात्मोपासनया सर्वे विघ्नाः सर्वाणि पापानि च तथैव नश्यन्ति यथा राज्ञः सेनापतेर्वा शस्त्रास्त्रैः सर्वे शत्रवः ॥२॥
इस भाष्य को एडिट करें