Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1674
ऋषिः - मेधातिथिः काण्वः देवता - विष्णुर्देवो वा छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
4

अ꣡तो꣢ दे꣣वा꣡ अ꣢वन्तु नो꣣ य꣢तो꣣ वि꣡ष्णु꣢र्विचक्र꣣मे꣢ । पृ꣣थिव्या꣢꣫ अधि꣣ सा꣡न꣢वि ॥१६७४॥

स्वर सहित पद पाठ

अ꣡तः꣣ । दे꣣वाः꣢ । अ꣣वन्तु । नः । य꣡तः꣢꣯ । वि꣡ष्णुः꣢꣯ । वि꣣चक्रमे꣢ । वि꣣ । चक्रमे꣢ । पृ꣣थिव्याः꣢ । अ꣡धि꣢꣯ । सा꣡न꣢꣯वि ॥१६७४॥


स्वर रहित मन्त्र

अतो देवा अवन्तु नो यतो विष्णुर्विचक्रमे । पृथिव्या अधि सानवि ॥१६७४॥


स्वर रहित पद पाठ

अतः । देवाः । अवन्तु । नः । यतः । विष्णुः । विचक्रमे । वि । चक्रमे । पृथिव्याः । अधि । सानवि ॥१६७४॥

सामवेद - मन्त्र संख्या : 1674
(कौथुम) उत्तरार्चिकः » प्रपाठक » 8; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 5; मन्त्र » 6
(राणानीय) उत्तरार्चिकः » अध्याय » 18; खण्ड » 2; सूक्त » 1; मन्त्र » 6
Acknowledgment

पदार्थः -
(यतः) यस्मात् (विष्णुः) व्यापको जगदीश्वरः (पृथिव्याः) पार्थिवायाः तन्वाः (सानवि अधि) उच्चप्रदेशे मस्तिष्के(विचक्रमे) व्याप्तोऽस्ति, (अतः) अस्मादेव कारणात् (देवाः) विद्वांसो जनास्तत्कृपया मस्तिष्कात् ज्ञानं प्राप्य (नः) अस्मान्(अवन्तु) रक्षन्तु ॥६॥२

भावार्थः - परमेश्वर एव शरीरस्य मस्तिष्कादिष्वङ्गेषु स्थितस्तैः सर्वं ज्ञानग्रहणादिकं कारयति ॥६॥

इस भाष्य को एडिट करें
Top