Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1675
ऋषिः - वसिष्ठो मैत्रावरुणिः
देवता - इन्द्रः
छन्दः - बार्हतः प्रगाथः (विषमा बृहती, समा सतोबृहती)
स्वरः - मध्यमः
काण्ड नाम -
4
मो꣡ षु त्वा꣢꣯ वा꣣घ꣡त꣢श्च꣣ ना꣢꣫रे अ꣣स्म꣡न्नि री꣢꣯रमन् । आ꣣रा꣡त्ता꣢द्वा सध꣣मा꣡दं꣢ न꣣ आ꣡ ग꣢ही꣣ह꣢ वा꣣ स꣡न्नु꣢꣯प श्रुधि ॥१६७५॥
स्वर सहित पद पाठमा꣢ । उ꣣ । सु꣢ । त्वा꣣ । वाघ꣡तः꣢ । च꣣ । न꣢ । आ꣣रे꣢ । अ꣣स्म꣢न् । नि । री꣣रमन् । आरा꣡त्ता꣢त् । वा꣣ । सधमा꣡द꣢म् । स꣣ध । मा꣡द꣢꣯म् । नः꣣ । आ꣢ । ग꣣हि । इह꣢ । वा꣣ । स꣢न् । उ꣡प꣢꣯ । श्रु꣢धि ॥१६७५॥
स्वर रहित मन्त्र
मो षु त्वा वाघतश्च नारे अस्मन्नि रीरमन् । आरात्ताद्वा सधमादं न आ गहीह वा सन्नुप श्रुधि ॥१६७५॥
स्वर रहित पद पाठ
मा । उ । सु । त्वा । वाघतः । च । न । आरे । अस्मन् । नि । रीरमन् । आरात्तात् । वा । सधमादम् । सध । मादम् । नः । आ । गहि । इह । वा । सन् । उप । श्रुधि ॥१६७५॥
सामवेद - मन्त्र संख्या : 1675
(कौथुम) उत्तरार्चिकः » प्रपाठक » 8; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 6; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 18; खण्ड » 2; सूक्त » 2; मन्त्र » 1
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 8; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 6; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 18; खण्ड » 2; सूक्त » 2; मन्त्र » 1
Acknowledgment
विषयः - तत्र प्रथमा ऋक् पूर्वार्चिके २८४ क्रमाङ्के परमात्मानं राजानं च सम्बोधिता। अत्र स्वकीयं मनः सम्बोधयति।
पदार्थः -
हे इन्द्र ! हे मदीय मनः ! [मन एवेन्द्रः। श० १२।९।१।१३।] (वाघतः च न) आकर्षकाः अपि पदार्थाः (त्वा) त्वाम् (अस्मत् आरे) अस्माकं सकाशात् दूरम् (मा उ सु) नैव खलु(निरीरमन्) निरमयन्तु। (आरात्तात्) सुदूरदेशादपि (नः) अस्माकम् (सधमादम्) उपासनायज्ञम् (आ गहि) आगच्छ, (इह वा सन्) अत्रैव च विद्यमानः (उप श्रुधि) अस्मदादेशम् उपशृणु ॥१॥२
भावार्थः - मनुष्यस्य मनो दूरात् सुदूरं धावति, नानासंकल्पविकल्पांश्च कुरुते। तस्यैषा चेष्टा परमात्मध्याने बाधिका जायते। अतोऽत्र दूरं गतं स्वकीयं मनः प्रत्याह्वयति ॥१॥
इस भाष्य को एडिट करें