Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1677
ऋषिः - वालखिल्यम् (आयुः काण्वः)
देवता - इन्द्रः
छन्दः - बार्हतः प्रगाथः (विषमा बृहती, समा सतोबृहती)
स्वरः - मध्यमः
काण्ड नाम -
5
अ꣡स्ता꣢वि꣣ म꣡न्म꣢ पू꣣र्व्यं꣡ ब्रह्मेन्द्रा꣢꣯य वोचत । पू꣣र्वी꣢रृ꣣त꣡स्य꣢ बृह꣣ती꣡र꣢नूषत स्तो꣣तु꣢र्मे꣣धा꣡ अ꣢सृक्षत ॥१६७७॥
स्वर सहित पद पाठअ꣡स्ता꣢꣯वि । म꣡न्म꣢꣯ । पू꣣र्व्य꣢म् । ब्र꣡ह्म꣢꣯ । इ꣡न्द्रा꣢꣯य । वो꣣चत । पूर्वीः꣢ । ऋ꣣त꣡स्य꣢ । बृ꣣हतीः꣢ । अ꣣नूषत । स्तोतुः꣢ । मे꣣धाः꣢ । अ꣣सृक्षत ॥१६७७॥
स्वर रहित मन्त्र
अस्तावि मन्म पूर्व्यं ब्रह्मेन्द्राय वोचत । पूर्वीरृतस्य बृहतीरनूषत स्तोतुर्मेधा असृक्षत ॥१६७७॥
स्वर रहित पद पाठ
अस्तावि । मन्म । पूर्व्यम् । ब्रह्म । इन्द्राय । वोचत । पूर्वीः । ऋतस्य । बृहतीः । अनूषत । स्तोतुः । मेधाः । असृक्षत ॥१६७७॥
सामवेद - मन्त्र संख्या : 1677
(कौथुम) उत्तरार्चिकः » प्रपाठक » 8; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 7; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 18; खण्ड » 2; सूक्त » 3; मन्त्र » 1
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 8; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 7; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 18; खण्ड » 2; सूक्त » 3; मन्त्र » 1
Acknowledgment
विषयः - तत्रादौ परमात्मस्तवनाय प्रेरयति।
पदार्थः -
(पूर्व्यम्) सनातनम् (मन्म) वेदस्तोत्रम्, मया (अस्तावि) प्रस्तुतमस्ति। हे सखायः ! यूयमपि (इन्द्राय) जगदीश्वराय(ब्रह्म) स्तोत्रम् (वोचत) शंसत। (ऋतस्य) सत्यस्य वेदस्य(पूर्वीः) श्रेष्ठाः (बृहतीः) बृहतीच्छन्दस्काः इमा ऋचः(अनूषत) इन्द्रं जगदीश्वरं स्तुवन्ति। (स्तोतुः) स्तुतिकर्तुः(मेधाः) धारणावत्यो बुद्धयः (असृक्षत) सृष्टा भवन्ति ॥१॥
भावार्थः - सामगानेन परमेश्वरस्तुत्या स्तोतॄणामृतम्भराः प्रज्ञा उद्यन्ति ॥१॥
इस भाष्य को एडिट करें