Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1679
ऋषिः - अम्बरीषो वार्षागिर ऋजिश्वा भारद्वाजश्च
देवता - पवमानः सोमः
छन्दः - अनुष्टुप्
स्वरः - गान्धारः
काण्ड नाम -
4
इ꣡न्द्रा꣢य सोम꣣ पा꣡त꣢वे वृत्र꣣घ्ने꣡ परि꣢꣯ षिच्यसे । न꣡रे꣢ च꣣ द꣡क्षि꣢णावते वी꣣रा꣡य꣢ सदना꣣स꣡दे꣢ ॥१६७९॥
स्वर सहित पद पाठइ꣡न्द्रा꣢꣯य । सो꣣म । पा꣡त꣢꣯वे । वृ꣣त्रघ्ने꣡ । वृ꣣त्र । घ्ने꣣ । प꣡रि꣢꣯ । सि꣣च्यसे । न꣡रे꣢꣯ । च꣣ । द꣡क्षि꣢꣯णावते । वी꣣रा꣡य꣣ । स꣣दनास꣡दे꣢ । स꣣दन । स꣡दे꣢꣯ ॥१६७९॥
स्वर रहित मन्त्र
इन्द्राय सोम पातवे वृत्रघ्ने परि षिच्यसे । नरे च दक्षिणावते वीराय सदनासदे ॥१६७९॥
स्वर रहित पद पाठ
इन्द्राय । सोम । पातवे । वृत्रघ्ने । वृत्र । घ्ने । परि । सिच्यसे । नरे । च । दक्षिणावते । वीराय । सदनासदे । सदन । सदे ॥१६७९॥
सामवेद - मन्त्र संख्या : 1679
(कौथुम) उत्तरार्चिकः » प्रपाठक » 8; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 8; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 18; खण्ड » 2; सूक्त » 4; मन्त्र » 1
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 8; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 8; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 18; खण्ड » 2; सूक्त » 4; मन्त्र » 1
Acknowledgment
विषयः - तत्र प्रथमा ऋक् उत्तरार्चिके १३३१ क्रमाङ्के गुरुशिष्यविषये व्याख्याता अत्र परमात्मभक्तिविषय उच्यते।
पदार्थः -
हे (सोम) मदीय भक्तिरस ! त्वम् (वृत्रघ्ने) पापानां हन्त्रे, (दक्षिणावते) दानवते (वीराय) कामादिषड्रिपूणां विशेषेण प्रकम्पयित्रे, (सदनासदे) हृदयगृहस्थिताय, (नरे च) नेतरि च (इन्द्राय) जगदीश्वराय (पातवे) पातुम् (परिषिच्यसे) परिक्षार्यसे ॥१॥
भावार्थः - परमात्मभक्ता जनाः पापकर्माणि परित्यज्य विपुलमैश्वर्यं च प्राप्य सर्वानान्तरान् बाह्यांश्च विघ्नान् हन्तुं क्षमन्ते ॥१॥
इस भाष्य को एडिट करें