Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1680
ऋषिः - अम्बरीषो वार्षागिर ऋजिश्वा भारद्वाजश्च
देवता - पवमानः सोमः
छन्दः - अनुष्टुप्
स्वरः - गान्धारः
काण्ड नाम -
5
त꣡ꣳ स꣢खायः पुरू꣣रु꣡चं꣢ व꣣यं꣢ यू꣣यं꣢ च꣢ सू꣣र꣡यः꣢ । अ꣣श्या꣢म꣣ वा꣡ज꣢गन्ध्यꣳ स꣣ने꣢म꣣ वा꣡ज꣢पस्त्यम् ॥१६८०॥
स्वर सहित पद पाठत꣢म् । स꣣खायः । स । खायः । पुरूरु꣡च꣢म् । पु꣣रु । रु꣡च꣢꣯म् । व꣣य꣢म् । यू꣣य꣢म् । च꣣ । सूर꣡यः꣢ । अ꣣श्या꣢म । वा꣡ज꣢꣯गन्ध्यम् । वा꣡ज꣢꣯ । ग꣣न्ध्यम् । सने꣡म꣢ । वा꣡ज꣢꣯पस्त्यम् । वा꣡ज꣢꣯ । प꣣स्त्यम् ॥१६८०॥
स्वर रहित मन्त्र
तꣳ सखायः पुरूरुचं वयं यूयं च सूरयः । अश्याम वाजगन्ध्यꣳ सनेम वाजपस्त्यम् ॥१६८०॥
स्वर रहित पद पाठ
तम् । सखायः । स । खायः । पुरूरुचम् । पुरु । रुचम् । वयम् । यूयम् । च । सूरयः । अश्याम । वाजगन्ध्यम् । वाज । गन्ध्यम् । सनेम । वाजपस्त्यम् । वाज । पस्त्यम् ॥१६८०॥
सामवेद - मन्त्र संख्या : 1680
(कौथुम) उत्तरार्चिकः » प्रपाठक » 8; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 8; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 18; खण्ड » 2; सूक्त » 4; मन्त्र » 2
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 8; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 8; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 18; खण्ड » 2; सूक्त » 4; मन्त्र » 2
Acknowledgment
विषयः - अथ पुनरपि तमेव विषयमाह।
पदार्थः -
हे (सखायः) सुहृदः (वयं यूयं च सूरयः) वयं यूयं च मेधाविनः उपासकाः (तम्) प्रसिद्धम् (पुरूरुचम्) बहुदीप्तिम्, (वाजगन्ध्यम्) वाजस्य आत्मबलस्य गन्ध्यं ग्रहणं यस्मात् तथाविधम् सोमं रसागारं परमेश्वरम्, (अश्याम) प्राप्नुयाम, (वाजपस्त्यम्) वाजस्य विज्ञानस्य पस्त्यं पतनं प्राप्तिर्यस्मात् तादृशम् सोमं शुभगुणकर्मप्रेरकं जगदीश्वरम् (सनेम) संभजेमहि। [वाजपस्त्यं वाजपतनम्। ‘सनेम वाजपस्त्यम्’ इत्यपि निगमो भवति। वाजगन्ध्यं गध्यत्युत्तरपदम्। ‘अश्याम वाजगन्ध्यम्’ इत्यपि निगमो भवति। गध्यं गृह्णातेः। इति निरुक्तम् (५।१५)] ॥२॥
भावार्थः - सर्वे सुहृदः संभूय श्रद्धया तरङ्गिताः सन्तः परमात्मानमुपासते चेत् तर्हि तेजोबलविज्ञानादीनां प्राप्तिः सततं जायते ॥२॥
इस भाष्य को एडिट करें