Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1693
ऋषिः - विश्वामित्रः प्रागाथः देवता - इन्द्राग्नी छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
4

इ꣡न्द्रा꣢ग्नी रोच꣣ना꣢ दि꣣वः꣢꣫ परि꣣ वा꣡जे꣢षु भूषथः । त꣡द्वां꣢ चेति꣣ प्र꣢ वी꣣꣬र्य꣢꣯म् ॥१६९३॥

स्वर सहित पद पाठ

इ꣡न्द्रा꣢꣯ग्नी । इ꣡न्द्र꣢꣯ । अ꣣ग्नीइ꣡ति꣢ । रो꣣चना꣢ । दि꣡वः꣢ । प꣡रि꣢꣯ । वा꣡जे꣢꣯षु । भू꣣षथः । त꣢त् । वा꣣म् । चेति । प्र꣢ । वी꣣र्यम्꣢ ॥१६९३॥


स्वर रहित मन्त्र

इन्द्राग्नी रोचना दिवः परि वाजेषु भूषथः । तद्वां चेति प्र वीर्यम् ॥१६९३॥


स्वर रहित पद पाठ

इन्द्राग्नी । इन्द्र । अग्नीइति । रोचना । दिवः । परि । वाजेषु । भूषथः । तत् । वाम् । चेति । प्र । वीर्यम् ॥१६९३॥

सामवेद - मन्त्र संख्या : 1693
(कौथुम) उत्तरार्चिकः » प्रपाठक » 8; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 14; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 18; खण्ड » 3; सूक्त » 5; मन्त्र » 1
Acknowledgment

पदार्थः -
हे (इन्द्राग्नी) आत्ममनसी ! युवाम् (वाजेषु) देवासुरसंग्रामेषु(दिवः) प्रकाशकस्य परमात्मनः (रोचना) रोचनाम् दीप्तिम्(परि भूषथः) परिप्राप्नुथः। [भू प्राप्तौ, लेटि रूपम्। रोचना इत्यत्र‘सुपां सुलुक्०’ अ० ७।१।३९ इति द्वितीयैकवचनस्य लुक्।] (तत्) प्रसिद्धम् (वाम्) युवयोः (वीर्यम्) बलम् (प्र चेति) सर्वैः प्रकृष्टतया ज्ञायते ॥१॥२

भावार्थः - आभ्यन्तरे देवासुरसंग्रामे सर्वानासुरान् भावान् पराजित्य मनुष्यस्यात्मा मनश्च परमात्मप्राप्तिलक्ष्यं लब्धुमर्हतः ॥१॥

इस भाष्य को एडिट करें
Top