Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1698
ऋषिः - मेध्यातिथिः काण्वः देवता - इन्द्रः छन्दः - बृहती स्वरः - मध्यमः काण्ड नाम -
4

य꣢ उ꣣ग्रः꣡ सन्ननि꣢꣯ष्टृतः स्थि꣣रो꣡ रणा꣢꣯य꣣ स꣡ꣳस्कृ꣢तः । य꣡दि꣢ स्तो꣣तु꣢र्म꣣घ꣡वा꣢ शृ꣣ण꣢व꣣द्ध꣢वं꣣ ने꣡न्द्रो꣢ योष꣣त्या꣡ ग꣢मत् ॥१६९८॥

स्वर सहित पद पाठ

यः । उ꣣ग्रः꣢ । सन् । अ꣡नि꣢꣯ष्टृतः । अ । नि꣣ष्टृतः । स्थिरः꣢ । र꣡णा꣢꣯य । स꣡ꣳस्कृ꣢꣯तः । सम् । कृ꣣तः । य꣡दि꣢ । स्तो꣣तुः꣢ । म꣣घ꣡वा꣢ । शृ꣣ण꣡व꣢त् । ह꣡व꣢꣯म् । न । इ꣡न्द्रः꣢꣯ । यो꣣षति । आ꣢ । ग꣣मत् ॥१६९८॥


स्वर रहित मन्त्र

य उग्रः सन्ननिष्टृतः स्थिरो रणाय सꣳस्कृतः । यदि स्तोतुर्मघवा शृणवद्धवं नेन्द्रो योषत्या गमत् ॥१६९८॥


स्वर रहित पद पाठ

यः । उग्रः । सन् । अनिष्टृतः । अ । निष्टृतः । स्थिरः । रणाय । सꣳस्कृतः । सम् । कृतः । यदि । स्तोतुः । मघवा । शृणवत् । हवम् । न । इन्द्रः । योषति । आ । गमत् ॥१६९८॥

सामवेद - मन्त्र संख्या : 1698
(कौथुम) उत्तरार्चिकः » प्रपाठक » 8; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 15; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 18; खण्ड » 3; सूक्त » 6; मन्त्र » 3
Acknowledgment

पदार्थः -
(यः) इन्द्रो जगदीश्वरः (उग्रः सन्) अधार्मिकाणां कृते प्रचण्डः सन् (अनिष्टृतः) तैः अनुपहिंसितो भवति। [स्तृतः इत्यत्र स्तृणातिर्हन्तिकर्मा। निघं० २।१९। निपूर्वो निष्टृतः, न निष्टृतः अनिष्टृतः।] अपि च, (स्थिरः) अविचलः सन् (रणाय) असुरैः सह युद्धाय (संस्कृतः) सज्जितो जायते, सः (मघवा) ऐश्वर्यवान्(इन्द्रः) जगदीश्वरः (यदि) चेत् (स्तोतुः) उपासकस्य (हवम्) आह्वानम् (शृणवत्) शृणुयात्, तर्हि (न योषति) पृथक् न तिष्ठेत्।[यु मिश्रणामिश्रणयोः, लेटि सिबागमे अडागमे च तिपि रूपम्।] प्रत्युत (आ गमत्) तस्यान्तःकरणम् उपागच्छेत् ॥३॥

भावार्थः - उपासकस्य हृदयान्निःसृतमाह्वानं जगदीश्वरोऽवश्यं शृणोति, दस्युभिः सह युद्धे च तस्मै बलं दत्त्वा तस्य साहाय्यं करोति ॥३॥ अस्मिन् खण्डे परमात्मो जीवात्मन उपास्योपासकसम्बन्ध- स्याऽऽत्ममनसोश्च विषयाणां वर्णनादेतत्खण्डस्य पूर्वखण्डेन संगतिरस्ति ॥

इस भाष्य को एडिट करें
Top