Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1713
ऋषिः - विरूप आङ्गिरसः
देवता - अग्निः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
9
स꣡ नो꣢ मित्रमह꣣स्त्व꣡मग्ने꣢꣯ शु꣣क्रे꣡ण꣢ शो꣣चि꣡षा꣢ । दे꣣वै꣡रा स꣢꣯त्सि ब꣣र्हि꣡षि꣢ ॥१७१३॥
स्वर सहित पद पाठसः꣢ । नः꣣ । मित्रमहः । मित्र । महः । त्व꣢म् । अ꣡ग्ने꣢꣯ । शु꣣क्रे꣡ण꣢ । शो꣣चि꣡षा꣢ । दे꣣वैः꣢ । आ । स꣣त्सि । बर्हि꣡षि꣢ ॥१७१३॥
स्वर रहित मन्त्र
स नो मित्रमहस्त्वमग्ने शुक्रेण शोचिषा । देवैरा सत्सि बर्हिषि ॥१७१३॥
स्वर रहित पद पाठ
सः । नः । मित्रमहः । मित्र । महः । त्वम् । अग्ने । शुक्रेण । शोचिषा । देवैः । आ । सत्सि । बर्हिषि ॥१७१३॥
सामवेद - मन्त्र संख्या : 1713
(कौथुम) उत्तरार्चिकः » प्रपाठक » 8; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 1; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 19; खण्ड » 1; सूक्त » 1; मन्त्र » 3
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 8; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 1; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 19; खण्ड » 1; सूक्त » 1; मन्त्र » 3
Acknowledgment
विषयः - अथ परमेश्वरं प्रार्थयते।
पदार्थः -
(मित्रमहः) मित्रं मित्रभूतं महः तेजो यस्य तादृश, हे (अग्ने) अग्रनायक परमेश ! (सः) असौ (नः) अस्मत्सखा (त्वम्) जगदीश्वरः (शुक्रेण) पवित्रेण (शोचिषा) ज्योतिषा (देवैः) दिव्यगुणैश्च सह (बर्हिषि) अस्माकं हृदयान्तरिक्षे (आ सत्सि) आसीद ॥३॥
भावार्थः - परमात्मोपासनया जना दिव्यं पवित्रं प्रकाशं दिव्यगुणांश्च प्राप्तुं शक्नुवन्ति ॥३॥
इस भाष्य को एडिट करें