Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1715
ऋषिः - अवत्सारः काश्यपः
देवता - पवमानः सोमः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
6
अ꣣या꣡ नि꣢ज꣣घ्नि꣡रोज꣢꣯सा रथस꣣ङ्गे꣡ धने꣢꣯ हि꣣ते꣢ । स्त꣢वा꣣ अ꣡बि꣢꣯भ्युषा हृ꣣दा꣢ ॥१७१५॥
स्वर सहित पद पाठअ꣣या꣢ । नि꣣जघ्निः꣢ । नि꣣ । जघ्निः꣢ । ओ꣡ज꣢꣯सा । र꣣थसङ्गे꣢ । र꣣थ । सङ्गे꣢ । ध꣡ने꣢꣯ । हि꣣ते꣢ । स्त꣡वै꣢꣯ । अ꣡बि꣢꣯भ्युषा । अ । बि꣣भ्युषा । हृदा꣢ ॥१७१५॥
स्वर रहित मन्त्र
अया निजघ्निरोजसा रथसङ्गे धने हिते । स्तवा अबिभ्युषा हृदा ॥१७१५॥
स्वर रहित पद पाठ
अया । निजघ्निः । नि । जघ्निः । ओजसा । रथसङ्गे । रथ । सङ्गे । धने । हिते । स्तवै । अबिभ्युषा । अ । बिभ्युषा । हृदा ॥१७१५॥
सामवेद - मन्त्र संख्या : 1715
(कौथुम) उत्तरार्चिकः » प्रपाठक » 8; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 2; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 19; खण्ड » 1; सूक्त » 2; मन्त्र » 2
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 8; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 2; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 19; खण्ड » 1; सूक्त » 2; मन्त्र » 2
Acknowledgment
विषयः - अथ परमात्मानं स्तौति।
पदार्थः -
हे पवमान सोम ! हे पवित्रदायक सर्वान्तर्यामिन् जगदीश ! त्वम् (अया) अनेन (ओजसा) बलेन (निजघ्निः) कामक्रोधादीनां रिपूणां हन्ता असि। [निपूर्वाद् हन्तेः ‘आदृगमहनजनः किकिनौ लिट् च’ अ० ३।२।१७१ इत्यनेन किः प्रत्ययः, तस्य च लिड्वत्त्वाद् द्वित्वादिः।] (रथसङ्गे) मानवदेहरूपस्य रथस्य प्राप्तौ सत्याम् (धने हिते) दिव्यैश्वर्यस्य लाभाय, अङम् (अबिभ्युषा) निर्भयेन (हृदा) हृदयेन, त्वाम् (स्तवै) स्तौमि ॥२॥
भावार्थः - हार्दिक्या श्रद्धया स्तुतो जगदीश्वरः स्तोत्रे सर्वानाभ्यन्तरान् बाह्यांश्च रिपून् विनाशयितुं बलं प्रदाय तमुपकुरुते ॥२॥
इस भाष्य को एडिट करें