Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1716
ऋषिः - अवत्सारः काश्यपः
देवता - पवमानः सोमः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
4
अ꣡स्य꣢ व्र꣣ता꣢नि꣣ ना꣢꣫धृषे꣣ प꣡व꣢मानस्य दू꣣꣬ढ्या꣢꣯ । रु꣣ज꣡ यस्त्वा꣢꣯ पृत꣣न्य꣡ति꣢ ॥१७१६॥
स्वर सहित पद पाठअ꣡स्य꣢꣯ । व्र꣣ता꣡नि꣢ । न । आ꣣धृ꣡षे꣢ । आ꣣ । धृ꣡षे꣢꣯ । प꣡व꣢꣯मानस्य । दू꣣ढ्या꣢ । रु꣣ज꣢ । यः । त्वा꣣ । पृतन्य꣡ति꣢ ॥१७१६॥
स्वर रहित मन्त्र
अस्य व्रतानि नाधृषे पवमानस्य दूढ्या । रुज यस्त्वा पृतन्यति ॥१७१६॥
स्वर रहित पद पाठ
अस्य । व्रतानि । न । आधृषे । आ । धृषे । पवमानस्य । दूढ्या । रुज । यः । त्वा । पृतन्यति ॥१७१६॥
सामवेद - मन्त्र संख्या : 1716
(कौथुम) उत्तरार्चिकः » प्रपाठक » 8; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 2; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 19; खण्ड » 1; सूक्त » 2; मन्त्र » 3
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 8; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 2; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 19; खण्ड » 1; सूक्त » 2; मन्त्र » 3
Acknowledgment
विषयः - अथ स्वकीयमन्तरात्मानमुद्बोधयति।
पदार्थः -
(अस्य) एतस्य (पवमानस्य) पुरुषार्थिनो जीवस्य। [पवते गतिकर्मा। निघं० २।१४।] (व्रतानि) संकल्पाः कर्माणि वा (दूढ्या) दुर्धिया शत्रुणा (आधृषे न) आधर्षणाय न भवन्ति। हे मदीय अन्तरात्मन् ! (यः) योऽपि आन्तरो बाह्यो वा रिपुः (त्वा) त्वाम् (पृतन्यति) सेनया अभियाति, तम् (रुज) भङ्ग्धि ॥३॥
भावार्थः - मनुष्यस्यान्तरात्मा प्रबोधनमुद्बोधनं च प्राप्य स्वशक्त्या सर्वान् आन्तरान् बाह्यांश्च रिपून् पराभूय देवासुरसंग्रामे विजेतुमर्हति ॥३॥
इस भाष्य को एडिट करें