Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1717
ऋषिः - अवत्सारः काश्यपः देवता - पवमानः सोमः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
18

त꣡ꣳ हि꣢न्वन्ति मद꣣च्यु꣢त꣣ꣳ ह꣡रिं꣢ न꣣दी꣡षु꣢ वा꣣जि꣡न꣢म् । इ꣢न्दु꣣मि꣡न्द्रा꣢य मत्स꣣र꣢म् ॥१७१७॥

स्वर सहित पद पाठ

त꣢म् । हि꣣न्वन्ति । मदच्यु꣡त꣢म् । म꣣द । च्यु꣡त꣢꣯म् । ह꣡रि꣢꣯म् । न꣣दी꣡षु꣢ । वा꣣जि꣡न꣢म् । इ꣡न्दु꣢꣯म् । इ꣡न्द्रा꣢꣯य । म꣣त्सर꣢म् ॥१७१७॥


स्वर रहित मन्त्र

तꣳ हिन्वन्ति मदच्युतꣳ हरिं नदीषु वाजिनम् । इन्दुमिन्द्राय मत्सरम् ॥१७१७॥


स्वर रहित पद पाठ

तम् । हिन्वन्ति । मदच्युतम् । मद । च्युतम् । हरिम् । नदीषु । वाजिनम् । इन्दुम् । इन्द्राय । मत्सरम् ॥१७१७॥

सामवेद - मन्त्र संख्या : 1717
(कौथुम) उत्तरार्चिकः » प्रपाठक » 8; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 2; मन्त्र » 4
(राणानीय) उत्तरार्चिकः » अध्याय » 19; खण्ड » 1; सूक्त » 2; मन्त्र » 4
Acknowledgment

पदार्थः -
प्राप्तप्रबोधा जागरूका उपासका जनाः (मदच्युतम्) उत्साहस्राविणम्, (हरिम्) पापहर्तारम्, (वाजिनम्) बलवन्तम्, (मत्सरम्) तृप्तिप्रदम्, (तम्) अद्भुतम् (इन्दुम्) ब्रह्मानन्दरसम् (नदीषु) धारासु (इन्द्राय) जीवात्मने (हिन्वन्ति) प्रेरयन्ति ॥४॥

भावार्थः - ये जनाः परमात्मोपासनया ब्रह्मानन्दधाराभिः स्वात्मानं तर्पयन्ति ते धन्या जायन्ते ॥४॥

इस भाष्य को एडिट करें
Top