Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1756
उ꣡द꣢पप्तन्नरु꣣णा꣢ भा꣣न꣢वो꣣ वृ꣡था꣢ स्वा꣣यु꣡जो꣢ अ꣡रु꣢षी꣣र्गा꣡ अ꣢युक्षत । अ꣡क्र꣢न्नु꣣षा꣡सो꣢ व꣣यु꣡ना꣢नि पू꣣र्व꣢था꣣ रु꣡श꣢न्तं भा꣣नु꣡मरु꣢꣯षीरशिश्रयुः ॥१७५६॥
स्वर सहित पद पाठउ꣢त् । अ꣣पप्तन् । अरुणाः꣢ । भा꣣न꣡वः꣢ । वृ꣡था꣢꣯ । स्वा꣣यु꣡जः꣢ । सु꣣ । आयु꣡जः꣢ । अ꣡रु꣢꣯षीः । गाः । अयु꣣क्षत । अ꣡क्र꣢꣯न् । उ꣣षा꣡सः꣢ । व꣣यु꣡ना꣢नि । पू꣣र्व꣡था꣢ । रु꣡श꣢꣯न्तम् । भा꣣नु꣢म् । अ꣡रु꣢꣯षीः । अ꣣शिश्रयुः ॥१७५६॥
स्वर रहित मन्त्र
उदपप्तन्नरुणा भानवो वृथा स्वायुजो अरुषीर्गा अयुक्षत । अक्रन्नुषासो वयुनानि पूर्वथा रुशन्तं भानुमरुषीरशिश्रयुः ॥१७५६॥
स्वर रहित पद पाठ
उत् । अपप्तन् । अरुणाः । भानवः । वृथा । स्वायुजः । सु । आयुजः । अरुषीः । गाः । अयुक्षत । अक्रन् । उषासः । वयुनानि । पूर्वथा । रुशन्तम् । भानुम् । अरुषीः । अशिश्रयुः ॥१७५६॥
सामवेद - मन्त्र संख्या : 1756
(कौथुम) उत्तरार्चिकः » प्रपाठक » 8; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 16; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 19; खण्ड » 5; सूक्त » 1; मन्त्र » 2
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 8; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 16; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 19; खण्ड » 5; सूक्त » 1; मन्त्र » 2
Acknowledgment
विषयः - अथ पुनरप्युषा वर्ण्यते।
पदार्थः -
(अरुणाः) आरक्तवर्णाः (भानवः) प्रकाशाः (वृथा) अनायासम् (उदपप्तन्) उद्गच्छन्ति। (अरुषीः) आरोचमानाः उषसः (स्वायुजः) सुखेन आयोक्तुं शक्याः (गाः) सूर्यदीधितीः (अयुक्षत) प्राचीने वियति सम्पृक्तवत्यः (उषासः) उषसः (पूर्वथा) पूर्वेष्वहःसु इव। [अत्र ‘प्रत्नपूर्व०’ अ० ५।३।१११ इत्यनेन इवार्थे थाल् प्रत्ययः।] (वयुनानि) लोकजागरणकर्माणि (अक्रन्) कुर्वन्ति। (अरुषीः) अरुष्यः आरक्तगुणा इमा उषसः (रुशन्तम्) रोचमानम्। [रुशदिति वर्णनाम, रोचतेर्ज्वलतिकर्मणः। निरु० २।२०।] (भानुम्) आदित्यम् (अशिश्रयुः) आश्रितवत्यः सन्ति। [श्रिञ् सेवायां भ्वादिः, लङि प्रथमबहुवचने व्यत्ययेन शपः स्थाने श्लुः] ॥२॥२ अत्र स्वभावोक्तिरलङ्कारः। ‘पूर्वथा’ इत्यत्रोपमा ॥२॥
भावार्थः - यथोषसामुदये व्योम भूतलं च प्रकाशितं जायते मानवाश्च जागर्तिमनुभवन्ति तथैवाध्यात्मिकीनां ज्योतिष्मतीनां प्रज्ञानामाविर्भावे चित्तपटलं प्रसीदत्यात्मबुद्धिप्राणेन्द्रियादीनि च सर्वाणि योगसिद्धये सचेष्टानि भवन्ति ॥२॥
इस भाष्य को एडिट करें