Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1758
ऋषिः - दीर्घतमा औचथ्यः देवता - अश्विनौ छन्दः - जगती स्वरः - निषादः काण्ड नाम -
8

अ꣡बो꣢ध्य꣣ग्नि꣡र्ज्म उदे꣢꣯ति꣣ सू꣢र्यो꣣ व्यु꣢३꣱षा꣢श्च꣣न्द्रा꣢ म꣣꣬ह्या꣢꣯वो अ꣣र्चि꣡षा꣢ । आ꣡यु꣢क्षाताम꣣श्वि꣢ना꣣ या꣡त꣢वे꣣ र꣢थं꣣ प्रा꣡सा꣢वीद्दे꣣वः꣡ स꣢वि꣣ता꣢꣫ जग꣣त्पृ꣡थ꣢क् ॥१७५८॥

स्वर सहित पद पाठ

अ꣡बो꣢꣯धि । अ꣣ग्निः꣢ । ज्मः । उत् । ए꣣ति । सू꣡र्यः꣢꣯ । वि । उ꣣षाः꣢ । च꣣न्द्रा꣢ । म꣣ही꣢ । आ꣣वः । अर्चि꣡षा꣢ । आ꣡यु꣢꣯क्षाताम् । अ꣣श्वि꣡ना꣢ । या꣡त꣢꣯वे । र꣡थ꣢꣯म् । प्र । अ꣣सावीत् । देवः꣢ । स꣣विता꣢ । ज꣡ग꣢꣯त् । पृ꣡थ꣢꣯क् ॥१७५८॥


स्वर रहित मन्त्र

अबोध्यग्निर्ज्म उदेति सूर्यो व्यु३षाश्चन्द्रा मह्यावो अर्चिषा । आयुक्षातामश्विना यातवे रथं प्रासावीद्देवः सविता जगत्पृथक् ॥१७५८॥


स्वर रहित पद पाठ

अबोधि । अग्निः । ज्मः । उत् । एति । सूर्यः । वि । उषाः । चन्द्रा । मही । आवः । अर्चिषा । आयुक्षाताम् । अश्विना । यातवे । रथम् । प्र । असावीत् । देवः । सविता । जगत् । पृथक् ॥१७५८॥

सामवेद - मन्त्र संख्या : 1758
(कौथुम) उत्तरार्चिकः » प्रपाठक » 8; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 17; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 19; खण्ड » 5; सूक्त » 2; मन्त्र » 1
Acknowledgment

पदार्थः -
(अग्निः) यज्ञवह्निः (अबोधि) यज्ञकुण्डे प्रबुद्धोऽस्ति। प्राच्यां दिशि (ज्मः) पृथिव्याः। [ज्मा पृथिवीनामसु पठितम्। निघं० १।१। ज्मायाः इति प्राप्ते आकारलोपश्छान्दसः।] (सूर्यः) भास्करः (उदेति) उदयं भवति (चन्द्रा) आह्लादप्रदा (मही) महती (उषाः) प्रभातसन्ध्या (अर्चिषा) प्रभया (वि आवः) विवृतवती स्वात्मानम्। [विपूर्वाद् वृणोतेर्लुङि ‘मन्त्रे घसह्वर०’ अ० २।४।८० इति च्लेर्लुक्। ‘छन्दस्यपि दृश्यते’ अ० ६।४।७३ इत्यनजादित्वे आडागमः।] (अश्विना२) अश्विनौ प्राणापानौ (यातवे) यातुम्। [यातेस्तुमर्थे तवेन् प्रत्ययः।] (रथम्) देहशकटम् (आयुक्षाताम्) आयोजयताम्। (देवः) प्रकाशकः (सविता) आदित्यः (जगत्) जडचेतनात्मकं सर्वं संसारम् (पृथक्) विभक्तरूपेण (प्रासावीत्) आविर्भावितवान् ॥१॥३ अत्र स्वभावोक्तिरलङ्कारः ॥१॥

भावार्थः - प्रभातस्य रमणीये स्वच्छे स्फूर्तिप्रदायके काले सर्वैः स्त्रीपुरुषैः प्राणायामविधिनाऽष्टाङ्गो योगोऽभ्यसनीयः ॥१॥

इस भाष्य को एडिट करें
Top