Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1763
ऋषिः - अवत्सारः काश्यपः देवता - पवमानः सोमः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
6

स꣡ म꣢र्मृजा꣣न꣢ आ꣣यु꣢भि꣣रि꣢भो꣣ रा꣡जे꣢व सुव्र꣣तः꣢ । श्ये꣣नो꣡ न वꣳसु꣢꣯ षीदति ॥१७६३॥

स्वर सहित पद पाठ

सः꣢ । म꣣र्मृजानः꣢ । आ꣣यु꣡भिः꣢ । इ꣡भः꣢꣯ । रा꣡जा꣢꣯ । इ꣣व । सुव्रतः꣢ । सु꣣ । व्रतः꣢ । श्ये꣣नः꣢ । न । व꣡ꣳसु꣢꣯ । सी꣣दति ॥१७६३॥


स्वर रहित मन्त्र

स मर्मृजान आयुभिरिभो राजेव सुव्रतः । श्येनो न वꣳसु षीदति ॥१७६३॥


स्वर रहित पद पाठ

सः । मर्मृजानः । आयुभिः । इभः । राजा । इव । सुव्रतः । सु । व्रतः । श्येनः । न । वꣳसु । सीदति ॥१७६३॥

सामवेद - मन्त्र संख्या : 1763
(कौथुम) उत्तरार्चिकः » प्रपाठक » 8; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 18; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 19; खण्ड » 5; सूक्त » 3; मन्त्र » 3
Acknowledgment

पदार्थः -
मनुष्यान् (आयुर्भिः२) आयुभिः, आयुर्वर्षैरित्यर्थः (मर्मृजानः) अलङ्कुर्वाणः। [मृजू शौचालङ्कारयोः चुरादिः। लिटः कानच्।] किञ्च (राजा इव) सम्राडिव (इभः) इतभयः (सुव्रतः) सुकर्मा च (सः) पवमानः सोमः पावकः जगदुत्पादकः शुभगुणकर्मप्रेरकः शान्तः परमेश्वरः (वंसु) इच्छुकेषु जनेषु (सीदति) उपविशति। कथमिव ? (श्येनः न) श्येनपक्षी यथा (वंसु) वनेषु (सीदति) उपविशति। [इभेन गतभयेन इति निरुक्तम्। ६।१२। षीदति, संहितायां षत्वं छान्दसम्। वंसु इच्छुकेषु, वनोतिः कान्तिकर्मा। निघं० २।६, यद्वा वंसु वनेषु, वन शब्दस्यान्तलोपश्छान्दसः] ॥३॥ अत्रोपमालङ्कारः। प्रथमा पूर्णोपमा, द्वितीया श्लिष्टा पूर्णोपमा, उभयोः संसृष्टिः ॥३॥

भावार्थः - ये परमात्मानं कामयन्ते तत्प्रीतिपरवशः स तेषां हृदि स्थितः सततं सत्प्रेरणां कुरुते ॥३॥

इस भाष्य को एडिट करें
Top