Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1778
ऋषिः - वामदेवो गौतमः देवता - अग्निः छन्दः - पदपङ्क्तिः स्वरः - पञ्चमः काण्ड नाम -
14

अ꣢धा꣣꣬ ह्य꣢꣯ग्ने꣣ क्र꣡तो꣢र्भ꣣द्र꣢स्य꣣ द꣡क्ष꣢स्य सा꣣धोः꣢ । र꣣थी꣢रृ꣣त꣡स्य꣢ बृह꣣तो꣢ ब꣣भू꣡थ꣢ ॥१७७८॥

स्वर सहित पद पाठ

अ꣡ध꣢꣯ । हि । अग्ने । क्र꣡तोः꣢꣯ । भ꣣द्र꣡स्य꣢ । द꣡क्ष꣢꣯स्य । सा꣣धोः꣢ । र꣣थीः꣢ । ऋ꣣त꣡स्य꣢ । बृ꣣हतः꣢ । ब꣣भू꣡थ꣢ ॥१७७८॥


स्वर रहित मन्त्र

अधा ह्यग्ने क्रतोर्भद्रस्य दक्षस्य साधोः । रथीरृतस्य बृहतो बभूथ ॥१७७८॥


स्वर रहित पद पाठ

अध । हि । अग्ने । क्रतोः । भद्रस्य । दक्षस्य । साधोः । रथीः । ऋतस्य । बृहतः । बभूथ ॥१७७८॥

सामवेद - मन्त्र संख्या : 1778
(कौथुम) उत्तरार्चिकः » प्रपाठक » 9; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 5; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 20; खण्ड » 1; सूक्त » 5; मन्त्र » 2
Acknowledgment

पदार्थः -
(अध) अथ, हे (अग्ने) जीवनोन्नायक परमात्मदेव ! त्वम् (भद्रस्य क्रतोः) शुभस्य कर्मणः (साधोः दक्षस्य) शोभनस्य बलस्य, (बृहतः ऋतस्य) महतः सत्यस्य च (रथीः) स्वामी (हि) निश्चयेन (बभूथ) बभूविथ। [अत्र ‘बभूथाततन्थजगृभ्मववर्थेति निगमे’। अ० ७।२।६४ इति निपातनादिडभावः। ‘रथीः’ इत्यत्र ‘छन्दसीवनिपौ च वक्तव्यौ’ वा० ५।२।१२२ इति वार्तिकेन मत्वर्थे ई प्रत्ययः। ‘अधा’ इत्यत्र ‘निपातस्य च’। अ० ६।३।१३६ इत्यनेन दीर्घः] ॥२॥२

भावार्थः - यथा जगदीश्वरः श्रेष्ठस्य कर्मणो बलस्य सत्यस्य चाधिपतिर्वर्तते तथैव मनुष्यैरपि भाव्यम् ॥२॥

इस भाष्य को एडिट करें
Top