Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1777
ऋषिः - वामदेवो गौतमः देवता - अग्निः छन्दः - पदपङ्क्तिः स्वरः - पञ्चमः काण्ड नाम -
4

अ꣢ग्ने꣣ त꣢म꣣द्या꣢श्वं꣣ न꣢꣫ स्तोमैः꣣ क्र꣢तुं꣣ न꣢ भ꣣द्र꣡ꣳ हृ꣢दि꣣स्पृ꣡श꣢म् । ऋ꣣ध्या꣡मा꣢ त꣣ ओ꣡हैः꣢ ॥१७७७॥

स्वर सहित पद पाठ

अ꣡ग्ने꣢꣯ । तम् । अ꣣द्य꣢ । अ꣣ । द्य꣢ । अ꣡श्व꣢꣯म् । न । स्तो꣡मैः꣢꣯ । क्र꣡तु꣢꣯म् । न । भ꣣द्र꣢म् । हृ꣣दिस्पृ꣡श꣢म् । हृ꣣दि । स्पृ꣣श꣢म् । ऋ꣣ध्या꣡म꣢ । ते । ओ꣡हैः꣢꣯ ॥१७७७॥


स्वर रहित मन्त्र

अग्ने तमद्याश्वं न स्तोमैः क्रतुं न भद्रꣳ हृदिस्पृशम् । ऋध्यामा त ओहैः ॥१७७७॥


स्वर रहित पद पाठ

अग्ने । तम् । अद्य । अ । द्य । अश्वम् । न । स्तोमैः । क्रतुम् । न । भद्रम् । हृदिस्पृशम् । हृदि । स्पृशम् । ऋध्याम । ते । ओहैः ॥१७७७॥

सामवेद - मन्त्र संख्या : 1777
(कौथुम) उत्तरार्चिकः » प्रपाठक » 9; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 5; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 20; खण्ड » 1; सूक्त » 5; मन्त्र » 1
Acknowledgment

पदार्थः -
हे (अग्ने) जीवननायक परमेश ! (अद्य) अस्मिन् दिने (अश्वं न) व्यापकं सूर्यमिव प्रकाशमानम्, (क्रतुं न) यज्ञ-कर्म इव च (भद्रम्) कल्याणकरम्, (हृदिस्पृशम्) हृदयनिवासिनम् (तम्) शरीरवर्तिनं स्वान्तरात्मानम् (ते ओहैः) त्वया प्रेरितैः (स्तोमैः) वेदमन्त्रैः (ऋध्याम) वर्धयेम, उद्बोधयेम। [ऋधु वृद्धौ, दिवादिः स्वादिश्च] ॥१॥२ अत्रोपमालङ्कारः ॥१॥

भावार्थः - यस्तेजस्वी कर्मण्यश्च जीवात्मा सर्वेषां हृदि सन्निविष्टः स उद्बोधकैर्वेदमन्त्रैरधिकाधिकमुद्बोधनीयो गुणगरिम्णा वर्धनीयश्च ॥१॥

इस भाष्य को एडिट करें
Top