Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1800
ऋषिः - वसिष्ठो मैत्रावरुणिः देवता - इन्द्रः छन्दः - विराडनुष्टुप् स्वरः - गान्धारः काण्ड नाम -
5

भू꣢रि꣣ हि꣢ ते꣣ स꣡व꣢ना꣣ मा꣡नु꣢षेषु꣣ भू꣡रि꣢ मनी꣣षी꣡ ह꣢वते꣣ त्वा꣢मित् । मा꣢꣫रे अ꣣स्म꣡न्म꣢घव꣣ञ्ज्यो꣡क्कः꣢ ॥१८००॥

स्वर सहित पद पाठ

भू꣡रि꣢꣯ । हि । ते꣢ । स꣡व꣢꣯ना । मा꣡नु꣢꣯षेषु । भू꣡रि꣢꣯ । म꣣नीषी꣢ । ह꣣वते । त्वा꣢म् । इत् । मा । आ꣣रे꣢ । अ꣢स्म꣢त् । म꣣घवन् । ज्यो꣢क् । क꣣रि꣡ति꣢ ॥१८००॥


स्वर रहित मन्त्र

भूरि हि ते सवना मानुषेषु भूरि मनीषी हवते त्वामित् । मारे अस्मन्मघवञ्ज्योक्कः ॥१८००॥


स्वर रहित पद पाठ

भूरि । हि । ते । सवना । मानुषेषु । भूरि । मनीषी । हवते । त्वाम् । इत् । मा । आरे । अस्मत् । मघवन् । ज्योक् । करिति ॥१८००॥

सामवेद - मन्त्र संख्या : 1800
(कौथुम) उत्तरार्चिकः » प्रपाठक » 9; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 13; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 20; खण्ड » 3; सूक्त » 4; मन्त्र » 3
Acknowledgment

पदार्थः -
हे इन्द्र जगदीश ! (मानुषेषु) मनुष्येषु (ते) तव (सवना) सवनानि आनन्दप्रदानानि (भूरि हि) भूरीणि खलु वर्तन्ते। (मनीषी) मनस्वी जनः (त्वाम् इत्) त्वामेव (भूरि) बहु (हवते) आह्वयति। हे (मघवन्) धनाधिप ! त्वम् स्वात्मानम् (अस्मत्) अस्माकं सकाशात् (ज्योक्) चिरम् (आरे) दूरे (मा कः) मा कार्षीः। [करोतेर्लुङि ‘मन्त्रे घसह्वर०’ अ० २।४।८० इति च्लेर्लुक्] ॥३॥२

भावार्थः - उपास्योपासकयोः सामीप्येनैवोपासना फलवती जायते ॥३॥ अस्मिन् खण्डे जीवात्मनः परमात्मन आचार्यस्य धनदानस्योपास्योपासकयोश्च विषयाणां वर्णनादेतत्खण्डस्य पूर्वखण्डेन संगतिर्विज्ञेया ॥

इस भाष्य को एडिट करें
Top