Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1853
ऋषिः - अप्रतिरथ ऐन्द्रः
देवता - इन्द्रः
छन्दः - त्रिष्टुप्
स्वरः - धैवतः
काण्ड नाम -
6
ब꣣लविज्ञायः꣡ स्थवि꣢꣯रः꣣ प्र꣡वी꣢रः꣣ स꣡ह꣢स्वान्वा꣣जी꣡ सह꣢꣯मान उ꣣ग्रः꣢ । अ꣣भि꣡वी꣢रो अ꣣भि꣡स꣢त्वा सहो꣣जा꣡ जैत्र꣢꣯मिन्द्र꣣ र꣢थ꣣मा꣡ ति꣢ष्ठ गो꣣वि꣢त् ॥१८५३॥
स्वर सहित पद पाठब꣣लविज्ञायः꣢ । ब꣣ल । विज्ञायः꣢ । स्थ꣡वि꣢꣯रः । स्थ । वि꣣रः । प्र꣡वी꣢꣯रः । प्र । वी꣣रः । स꣡ह꣢꣯स्वान् । वा꣣जी꣢ । स꣡ह꣢꣯मानः । उ꣣ग्रः꣢ । अ꣣भि꣡वी꣢रः । अ꣣भि꣢ । वी꣢रः । अभि꣣स꣢त्वा । अ꣡भि꣢ । स꣣त्वा । सहोजाः꣢ । स꣣हः । जाः꣢ । जै꣡त्र꣢꣯म् । इ꣣न्द्र । र꣡थ꣢꣯म् । आ । ति꣣ष्ठ । गोवि꣢त् । गो꣣ । वित् ॥१८५३॥
स्वर रहित मन्त्र
बलविज्ञायः स्थविरः प्रवीरः सहस्वान्वाजी सहमान उग्रः । अभिवीरो अभिसत्वा सहोजा जैत्रमिन्द्र रथमा तिष्ठ गोवित् ॥१८५३॥
स्वर रहित पद पाठ
बलविज्ञायः । बल । विज्ञायः । स्थविरः । स्थ । विरः । प्रवीरः । प्र । वीरः । सहस्वान् । वाजी । सहमानः । उग्रः । अभिवीरः । अभि । वीरः । अभिसत्वा । अभि । सत्वा । सहोजाः । सहः । जाः । जैत्रम् । इन्द्र । रथम् । आ । तिष्ठ । गोवित् । गो । वित् ॥१८५३॥
सामवेद - मन्त्र संख्या : 1853
(कौथुम) उत्तरार्चिकः » प्रपाठक » 9; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 2; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 21; खण्ड » 1; सूक्त » 2; मन्त्र » 2
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 9; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 2; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 21; खण्ड » 1; सूक्त » 2; मन्त्र » 2
Acknowledgment
विषयः - अथ पुनरपि तमेव विषयमाह।
पदार्थः -
हे (इन्द्र) जीवात्मन् ! (बलविज्ञायः) ब्रह्मबलस्य विज्ञः, (स्थविरः) अनुभववृद्धः, (प्रवीरः) प्रकृष्टो वीरः, (सहस्वान्) उत्साहवान्, (वाजी) विज्ञानवान्, (सहमानः) सुखदुःखादिद्वन्द्वानां सोढा, (उग्रः) प्रतापवान्, (अभिवीरः) अभिगता मनःप्राणादयो वीरा यस्य सः, (अभिसत्वा) अभिगतपराक्रमः, (सहोजाः) सहसा बलेन जातः प्रसिद्धः, (गोवित्) गाः विवेकरश्मीन् श्रेष्ठा वाचो वा विन्दति प्राप्नोति यः तादृशः त्वम् (जैत्रम्) जयशीलम् (रथम्) यानम् (आतिष्ठ) अधिरोह ॥२॥२
भावार्थः - यथा स्वयं वीरो वीरैर्योद्धृभिर्युक्तश्च सेनापतिर्जयशीलं रथमधिष्ठाय भीषणमपि समरं जयति तथैव वेदविद् ब्रह्मवित् सहनशीलो मनोबुद्धिप्राणादिभिर्वीरैर्युक्तः प्रभाववान् प्रतापी देहरथस्याधिष्ठाता जीवात्मा प्रौढेन मनोबलेन सर्वानपि बाह्यानान्तरांश्च संग्रामान् जेतुमर्हति ॥२॥
इस भाष्य को एडिट करें