Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1854
ऋषिः - अप्रतिरथ ऐन्द्रः
देवता - इन्द्रः
छन्दः - त्रिष्टुप्
स्वरः - धैवतः
काण्ड नाम -
4
गो꣣त्रभि꣡दं꣢ गो꣣वि꣢दं꣣ व꣡ज्र꣢बाहुं꣣ ज꣡य꣢न्त꣣म꣡ज्म꣢ प्रमृ꣣ण꣢न्त꣣मो꣡ज꣢सा । इ꣣म꣡ꣳ स꣢जाता꣣ अ꣡नु꣢ वीरयध्व꣣मि꣡न्द्र꣢ꣳ सखायो꣣ अ꣢नु꣣ स꣡ꣳ र꣢भध्वम् ॥१८५४॥
स्वर सहित पद पाठगो꣣त्रभि꣡द꣢म् । गो꣣त्र । भि꣡द꣢꣯म् । गो꣣वि꣡द꣢म् । गो꣣ । वि꣡द꣢꣯म् । व꣡ज्र꣢꣯बाहुम् । व꣡ज्र꣢꣯ । बा꣣हुम् । ज꣡य꣢꣯न्तम् । अ꣡ज्म꣢꣯ । प्र꣣मृण꣡न्त꣢म् । प्र꣣ । मृण꣡न्त꣢꣯म् । ओ꣡ज꣢꣯सा । इ꣣म꣢म् । स꣣जाताः । स । जाताः । अ꣡नु꣢꣯ । वी꣣रयध्वम् । इ꣡न्द्र꣢꣯म् । स꣣खायः । स । खायः । अ꣡नु꣢꣯ । सम् । र꣣भध्वम् ॥१८५४॥
स्वर रहित मन्त्र
गोत्रभिदं गोविदं वज्रबाहुं जयन्तमज्म प्रमृणन्तमोजसा । इमꣳ सजाता अनु वीरयध्वमिन्द्रꣳ सखायो अनु सꣳ रभध्वम् ॥१८५४॥
स्वर रहित पद पाठ
गोत्रभिदम् । गोत्र । भिदम् । गोविदम् । गो । विदम् । वज्रबाहुम् । वज्र । बाहुम् । जयन्तम् । अज्म । प्रमृणन्तम् । प्र । मृणन्तम् । ओजसा । इमम् । सजाताः । स । जाताः । अनु । वीरयध्वम् । इन्द्रम् । सखायः । स । खायः । अनु । सम् । रभध्वम् ॥१८५४॥
सामवेद - मन्त्र संख्या : 1854
(कौथुम) उत्तरार्चिकः » प्रपाठक » 9; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 2; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 21; खण्ड » 1; सूक्त » 2; मन्त्र » 3
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 9; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 2; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 21; खण्ड » 1; सूक्त » 2; मन्त्र » 3
Acknowledgment
विषयः - अथ जीवात्मनो नेतृत्वे विजयलाभाय वीरान् प्रोत्साहयति।
पदार्थः -
(गोत्रभिदम्) अविद्याऽस्मितादिक्लेशरूपपर्वतानां भेत्तारम्, (गोविदम्) विवेकप्रकाशरश्मीनां लब्धारम्, (वज्रबाहुम्) अशुद्धिक्षयार्थं ज्ञानदीप्त्यर्थं च गृहीतयमनियमासनप्राणायामप्रत्याहारधारणाध्यान- समाधिरूपवज्रम्, (अज्म) देवासुरसंग्रामम् (जयन्तं) विजयमानम्, (ओजसा) बलेन (प्रमृणन्तम्) आभ्यन्तरान् शत्रून् प्रहिंसन्तम् (इमम् अनु) एतं जीवात्मानम् अनुसृत्य, हे (सजाताः) देहे सहोत्पन्ना मनोबुद्धिप्राणादयः ! यूयम् (वीरयध्वम्) वीरतां प्रदर्शयत, हे (सखायः) सुहृदः यूयम् (इन्द्रम् अनु) जीवात्मानमनुसृत्य (संरभध्वम्) वीरकार्याणि प्रारभध्वम् ॥३॥२
भावार्थः - देहाभ्यन्तरे जीवो नाम महापराक्रमः सेनापतिः सम्पूर्णरणसज्जया सह समवस्थितोऽस्ति यः सर्वान् विघ्नान् पराजित्य देवासुरसंग्रामे विजयं लब्धुमर्हति ॥३॥
इस भाष्य को एडिट करें