Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1855
ऋषिः - अप्रतिरथ ऐन्द्रः
देवता - इन्द्रः
छन्दः - त्रिष्टुप्
स्वरः - धैवतः
काण्ड नाम -
7
अ꣣भि꣢ गो꣣त्रा꣢णि꣣ स꣡ह꣢सा꣣ गा꣡ह꣢मानोऽद꣣यो꣢ वी꣣रः꣢ श꣣त꣡म꣢न्यु꣣रि꣡न्द्रः꣢ । दु꣣श्च्यवनः꣡ पृ꣢तना꣣षा꣡ड꣢यु꣣ध्यो꣢३ऽस्मा꣢क꣣ꣳ से꣡ना꣢ अवतु꣣ प्र꣢ यु꣣त्सु꣢ ॥१८५५॥
स्वर सहित पद पाठअ꣣भि꣢ । गो꣣त्रा꣡णि꣢ । स꣡ह꣢꣯सा । गा꣡ह꣢꣯मानः । अ꣣दयः꣢ । अ꣣ । दयः꣢ । वी꣣रः꣢ । श꣣त꣡म꣢न्युः । श꣣त꣢ । म꣣न्युः । इ꣡न्द्रः꣢꣯ । दु꣣श्च्यवनः꣢ । दुः꣣ । च्यवनः꣢ । पृ꣣तनाषा꣢ट् । पृ꣣तना । षा꣢ट् । अ꣣युध्यः꣢ । अ꣣ । युध्यः꣢ । अ꣣स्मा꣡क꣢म् । से꣡नाः꣢꣯ । अ꣣वतु । प्र꣢ । यु꣡त्सु꣢ ॥१८५५॥
स्वर रहित मन्त्र
अभि गोत्राणि सहसा गाहमानोऽदयो वीरः शतमन्युरिन्द्रः । दुश्च्यवनः पृतनाषाडयुध्यो३ऽस्माकꣳ सेना अवतु प्र युत्सु ॥१८५५॥
स्वर रहित पद पाठ
अभि । गोत्राणि । सहसा । गाहमानः । अदयः । अ । दयः । वीरः । शतमन्युः । शत । मन्युः । इन्द्रः । दुश्च्यवनः । दुः । च्यवनः । पृतनाषाट् । पृतना । षाट् । अयुध्यः । अ । युध्यः । अस्माकम् । सेनाः । अवतु । प्र । युत्सु ॥१८५५॥
सामवेद - मन्त्र संख्या : 1855
(कौथुम) उत्तरार्चिकः » प्रपाठक » 9; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 3; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 21; खण्ड » 1; सूक्त » 3; मन्त्र » 1
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 9; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 3; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 21; खण्ड » 1; सूक्त » 3; मन्त्र » 1
Acknowledgment
विषयः - तत्रादौ जीवात्मरूपः सेनापतिः रक्षणं प्रार्थ्यते।
पदार्थः -
(सहसा) आत्मबलेन (गोत्राणि) व्याधिस्त्यानसंशयादीनां योगविघ्नानां बाह्यविघ्नानां च दुर्गाणि (अभि गाहमानः) आलोडयमानः, (अदयः) अन्तःशत्रुषु बाह्यशत्रुषु च निर्दयः, (वीरः) पराक्रमवान्, (शतमन्युः) अनन्ततेजाः, (दुश्च्यवनः) रिपुभिरच्याव्यः, (पृतनाषाट्) शत्रुसेनानां पराजेता, (अयुध्यः) शत्रुभिर्योद्धुमशक्यः (इन्द्रः) जीवात्मरूपः सेनापतिः (युत्सु) आन्तरेषु बाह्येषु च देवासुरसंग्रामेषु (अस्माकम् सेनाः) अस्मत्पक्षीयाः यमनियमादीनां धार्मिकाणां योद्धॄणां वा पृतनाः (प्र अवतु) प्रकर्षेण रक्षतु ॥१॥२
भावार्थः - यथा राष्ट्रे कश्चिद् वीरः सेनानीः स्वपक्षीयाः सेनाः शत्रुभ्यो रक्षति, दुष्टान् रिपूंश्च शस्त्रास्त्रैर्हिनस्ति तथैव देहाधिष्ठितो जीवात्मा प्रबोधं प्राप्य स्वसंकल्पबलेन बाहुबलेन च सर्वानाभ्यन्तरान् बाह्यांश्च शत्रून् पराजयेत् ॥१॥
इस भाष्य को एडिट करें