Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1856
ऋषिः - अप्रतिरथ ऐन्द्रः
देवता - इन्द्रः
छन्दः - त्रिष्टुप्
स्वरः - धैवतः
काण्ड नाम -
4
इ꣡न्द्र꣢ आसां ने꣣ता꣢꣫ बृह꣣स्प꣢ति꣣र्द꣡क्षि꣢णा य꣣ज्ञः꣢ पु꣣र꣡ ए꣢तु꣣ सो꣡मः꣢ । दे꣣वसेना꣡ना꣢मभिभञ्जती꣣नां꣡ जय꣢꣯न्तीनां म꣣रु꣡तो꣢ य꣣न्त्व꣡ग्र꣢म् ॥१८५६॥
स्वर सहित पद पाठइ꣡न्द्रः꣢꣯ । आ꣣साम् । नेता꣢ । बृ꣡हः꣢꣯ । प꣡तिः꣢꣯ । द꣡क्षि꣢꣯णा । य꣣ज्ञः꣢ । पु꣣रः꣢ । ए꣣तु । सो꣡मः꣢꣯ । दे꣣वसेना꣡ना꣢म् । दे꣣व । सेना꣡ना꣢म् । अ꣣भिभञ्जतीना꣢म् । अ꣣भि । भञ्जतीना꣢म् । ज꣡य꣢꣯न्तीनाम् । म꣣रु꣡तः꣢ । य꣣न्तु । अ꣡ग्र꣢꣯म् ॥१८५६॥
स्वर रहित मन्त्र
इन्द्र आसां नेता बृहस्पतिर्दक्षिणा यज्ञः पुर एतु सोमः । देवसेनानामभिभञ्जतीनां जयन्तीनां मरुतो यन्त्वग्रम् ॥१८५६॥
स्वर रहित पद पाठ
इन्द्रः । आसाम् । नेता । बृहः । पतिः । दक्षिणा । यज्ञः । पुरः । एतु । सोमः । देवसेनानाम् । देव । सेनानाम् । अभिभञ्जतीनाम् । अभि । भञ्जतीनाम् । जयन्तीनाम् । मरुतः । यन्तु । अग्रम् ॥१८५६॥
सामवेद - मन्त्र संख्या : 1856
(कौथुम) उत्तरार्चिकः » प्रपाठक » 9; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 3; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 21; खण्ड » 1; सूक्त » 3; मन्त्र » 2
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 9; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 3; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 21; खण्ड » 1; सूक्त » 3; मन्त्र » 2
Acknowledgment
विषयः - अथ जीवात्मनः सेनाध्यक्षत्वे विजयार्थं युद्धप्रयाणं वर्ण्यते।
पदार्थः -
(बृहः पतिः) बृहतः शरीरराष्ट्रस्य पाता, (इन्द्रः) वीरः जीवात्मरूपः सेनापतिः (आसाम्) देवसेनानाम् (नेता) नायको भवतु। (दक्षिणा) त्यागभावना, (यज्ञः) परमात्मपूजनरूपो यज्ञः (सोमः) शान्तिव्रतं च (पुरः एतु) अग्रे गच्छतु। (अभिभञ्जतीनाम्) अदिव्यान् भावान् अधार्मिकान् दुष्टजनांश्च आमृद्नन्तीनाम्, (जयन्तीनाम्) विजयोत्कर्षं प्राप्नुवतीनाम् (देवसेनानाम्) दिव्यभावचमूनां सदाचारिविद्वच्चमूनां च (अग्रम्) अग्रगामित्वेन (मरुतः) प्राणाः वायुवद् बलिष्ठाः शूरवीराश्च (यन्तु) गच्छन्तु ॥२॥
भावार्थः - स्वजीवात्मानं सेनापतिं विधाय, त्यागं परमात्मोपासनं विश्वशान्तिं चादर्शं सम्मुखं कृत्वा, सत्याहिंसादीनां बलिष्ठानां योद्धॄणां च सेनां गृहीत्वा प्राणपणेन युद्ध्वा सर्वैर्देवासुरसंग्रामे विजयः प्राप्तव्यः ॥२॥
इस भाष्य को एडिट करें