Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1858
ऋषिः - अप्रतिरथ ऐन्द्रः देवता - इन्द्रः छन्दः - त्रिष्टुप् स्वरः - धैवतः काण्ड नाम -
4

उ꣡द्ध꣢र्षय मघव꣣न्ना꣡यु꣢धा꣣न्यु꣡त्सत्व꣢꣯नां माम꣣का꣢नां꣣ म꣡ना꣢ꣳसि । उ꣡द्वृ꣢त्रहन्वा꣣जि꣢नां꣣ वा꣡जि꣢ना꣣न्यु꣡द्रथा꣢꣯नां꣣ ज꣡य꣢तां यन्तु꣣ घो꣡षाः꣢ ॥१८५८॥

स्वर सहित पद पाठ

उ꣢त् । ह꣣र्षय । मघवन् । आ꣡यु꣢꣯धानि । उत् । स꣡त्व꣢꣯नाम् । मा꣣मका꣡ना꣢म् । म꣡ना꣢꣯ꣳसि । उत् । वृ꣣त्रहन् । वृत्र । हन् । वाजि꣡ना꣢म् । वा꣡जि꣢꣯नानि । उत् । र꣡था꣢꣯नाम् । ज꣡य꣢꣯ताम् । य꣣न्तु । घो꣡षाः꣢꣯ ॥१८५८॥


स्वर रहित मन्त्र

उद्धर्षय मघवन्नायुधान्युत्सत्वनां मामकानां मनाꣳसि । उद्वृत्रहन्वाजिनां वाजिनान्युद्रथानां जयतां यन्तु घोषाः ॥१८५८॥


स्वर रहित पद पाठ

उत् । हर्षय । मघवन् । आयुधानि । उत् । सत्वनाम् । मामकानाम् । मनाꣳसि । उत् । वृत्रहन् । वृत्र । हन् । वाजिनाम् । वाजिनानि । उत् । रथानाम् । जयताम् । यन्तु । घोषाः ॥१८५८॥

सामवेद - मन्त्र संख्या : 1858
(कौथुम) उत्तरार्चिकः » प्रपाठक » 9; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 4; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 21; खण्ड » 1; सूक्त » 4; मन्त्र » 1
Acknowledgment

पदार्थः -
हे (मघवन्) ऐश्वर्यशालिन् देहाधिष्ठातः जीवात्मन् ! (आयुधानि) शस्त्रास्त्राणि (उद्धर्षय) उत्स्फोरय, (मामकानाम्) मदीयानाम् (सत्वनाम्) वीराणाम् (मनांसि) हृदयानि (उत्) उद्धर्षय उत्स्फोरय उत्साहय। हे (वृत्रहन्) पापहन्तः विघ्नहन्तः शत्रुहन्तः आत्मन् ! (वाजिनाम्) बलवतां योद्धॄणाम् (वाजिनानि) युद्धक्रियाकौशलानि (उद् यन्तु) उद्गच्छन्तु, (जयताम्) विजयं प्राप्नुवताम् (रथानाम्) यानानाम्, लक्षणया यानारोहिणाम् (घोषाः) विजयघोषाः (उद् यन्तु) उद् गच्छन्तु ॥१॥२ अत्र वीरो रसः। उद् इत्यस्यावृत्तौ लाटानुप्रासः। ‘वाजिनां, वाजिना’ इत्यत्र च यमकम्, यकारनकारमकारतकारानुप्रासाः ॥१॥

भावार्थः - योऽयं कश्चिद् राजा वा सेनापतिर्वा शस्त्रास्त्राणि तेजयति, स्वपक्षीयाणां वीराणां मनांस्युत्साहयति, विजयदुन्दुभिं वादयति, तत्सर्वं कृत्यं तद्देहस्थस्य जीवात्मन एव। अतः स एव सम्बोद्ध्यः। आत्मोद्बोधनेनैव बाह्यविजयवदाभ्यन्तरविजयोऽपि प्राप्यते ॥१॥

इस भाष्य को एडिट करें
Top