Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 197
ऋषिः - श्रुतकक्ष आङ्गिरसः देवता - इन्द्रः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम - ऐन्द्रं काण्डम्
3

आ꣡ त्वा꣢ विश꣣न्त्वि꣡न्द꣢वः समु꣣द्र꣡मि꣢व꣣ सि꣡न्ध꣢वः । न꣢꣫ त्वामि꣣न्द्रा꣡ति꣢ रिच्यते ॥१९७॥

स्वर सहित पद पाठ

आ꣢ । त्वा꣣ । विशन्तु । इ꣡न्द꣢꣯वः । स꣣मुद्र꣢म् । स꣣म् । उद्र꣢म् । इ꣣व । सि꣡न्ध꣢꣯वः । न । त्वाम् । इ꣣न्द्र । अ꣡ति꣢꣯ । रि꣣च्यते ॥१९७॥


स्वर रहित मन्त्र

आ त्वा विशन्त्विन्दवः समुद्रमिव सिन्धवः । न त्वामिन्द्राति रिच्यते ॥१९७॥


स्वर रहित पद पाठ

आ । त्वा । विशन्तु । इन्दवः । समुद्रम् । सम् । उद्रम् । इव । सिन्धवः । न । त्वाम् । इन्द्र । अति । रिच्यते ॥१९७॥

सामवेद - मन्त्र संख्या : 197
(कौथुम) पूर्वार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 1; दशतिः » 1; मन्त्र » 4
(राणानीय) पूर्वार्चिकः » अध्याय » 2; खण्ड » 9;
Acknowledgment

पदार्थः -
(इन्दवः) चन्द्रकिरणवदाह्लादकाः मदीयाः स्तुतिरूपाः सोमाः (त्वा) त्वां परमेश्वरम् (आ विशन्तु) प्रविशन्तु, प्राप्नुवन्तु, (सिन्धवः) स्यन्दमानाः नद्यः (समुद्रम् इव) यथा समुद्रम् आ विशन्ति प्राप्नुवन्ति। हे (इन्द्र) परमैश्वर्यशालिन् दुःखविदारक सुखप्रदायक परमात्मन् ! (त्वाम्) अनुपमं भवन्तम् कश्चित् (न अतिरिच्यते) न अतिशेते, महिम्ना त्वत्तोऽधिकतरो न भवतीत्यर्थः ॥४॥ अत्रोपमालङ्कारः ॥४॥

भावार्थः - यथा नद्यो रत्नाकरं प्राप्य रत्नमण्डिता जायन्ते, तथा सर्वाः प्रजाः स्तुत्या गुणरत्ननिधानं परमेश्वरं प्राप्य गुणानां निधयो भवन्तु ॥४॥

इस भाष्य को एडिट करें
Top