Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 198
ऋषिः - मधुच्छन्दा वैश्वामित्रः देवता - इन्द्रः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम - ऐन्द्रं काण्डम्
5

इ꣢न्द्र꣣मि꣢द्गा꣣थि꣡नो꣢ बृ꣣ह꣡दिन्द्र꣢꣯म꣣र्के꣡भि꣢र꣣र्कि꣡णः꣢ । इ꣢न्द्रं꣣ वा꣡णी꣢रनूषत ॥१९८॥

स्वर सहित पद पाठ

इ꣡न्द्र꣢꣯म् । इत् । गा꣣थि꣡नः꣢ । बृ꣣ह꣢त् । इ꣡न्द्र꣢꣯म् । अ꣣र्के꣡भिः । अ꣣र्कि꣡णः꣢ । इ꣡न्द्र꣢꣯म् । वा꣡णीः꣢꣯ । अ꣣नूषत ॥१९८॥


स्वर रहित मन्त्र

इन्द्रमिद्गाथिनो बृहदिन्द्रमर्केभिरर्किणः । इन्द्रं वाणीरनूषत ॥१९८॥


स्वर रहित पद पाठ

इन्द्रम् । इत् । गाथिनः । बृहत् । इन्द्रम् । अर्केभिः । अर्किणः । इन्द्रम् । वाणीः । अनूषत ॥१९८॥

सामवेद - मन्त्र संख्या : 198
(कौथुम) पूर्वार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 1; दशतिः » 1; मन्त्र » 5
(राणानीय) पूर्वार्चिकः » अध्याय » 2; खण्ड » 9;
Acknowledgment

पदार्थः -
(इन्द्रम्) महान्तं परमेश्वरम् (इत्) एव (गाथिनः) सामगानकर्तारः उद्गातारः। गै शब्दे धातोः ‘उषिकुषिगार्तिभ्यस्थन्। उ० २।४ इति थन् प्रत्यये गाथः। गाथः सामगानं येषामस्तीति ते गाथिनः। (इन्द्रम्) तमेव महान्तं परमेश्वरम् (अर्केभिः२) अर्कैः वेदमन्त्रैः। अर्को मन्त्रो भवति यदेनेन अर्चन्ति। निरु० ५।४। अर्कैः इति प्राप्ते ‘बहुलं छन्दसि। अ० ७।१।१० इति भिस ऐसादेशो न। (अर्किणः) मन्त्रपाठिनो होतारः, (इन्द्रम्) तमेव च महान्तं परमेश्वरम् (वाणीः३) अन्येषामपि जनानां वाण्यः (बृहत्४) बहु (अनूषत) अनाविषुः स्तुवन्ति। णु स्तुतौ धातोः कालसामान्ये लुङ्। व्यत्ययेनात्मनेपदम्। छान्दसं रूपम् ॥५॥५

भावार्थः - परमैश्वर्यवान्, दुःखदारिद्र्यविदारकः, सुखसम्पत्प्रदाता, धार्मिकाणां प्रशंसकः, कुकर्मणां विद्रावकः, सकलगुणनिधिः, सद्गुणाधायकः परमात्मैव सर्वजनवन्दनीयोऽस्ति। स एव सामगानेन मन्त्रपाठादिना च स्तोतव्यः ॥५॥

इस भाष्य को एडिट करें
Top