Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 547
ऋषिः - ययातिर्नाहुषः देवता - पवमानः सोमः छन्दः - अनुष्टुप् स्वरः - गान्धारः काण्ड नाम - पावमानं काण्डम्
4

सु꣣ता꣢सो꣣ म꣡धु꣢मत्तमाः꣣ सो꣢मा꣣ इ꣡न्द्रा꣢य म꣣न्दि꣡नः꣢ । प꣣वि꣡त्र꣢वन्तो अक्षरन्दे꣣वा꣡न्ग꣢च्छन्तु वो꣢ म꣡दाः꣢ ॥५४७॥

स्वर सहित पद पाठ

सु꣣ता꣡सः꣢ । म꣡धु꣢꣯मत्तमाः । सो꣡माः꣢꣯ । इ꣡न्द्रा꣢꣯य । मन्दि꣡नः꣢ । प꣣वि꣡त्र꣢वन्तः । अ꣣क्षरन् । देवा꣢न् । ग꣣च्छन्तु । वः । म꣡दाः꣢꣯ ॥५४७॥


स्वर रहित मन्त्र

सुतासो मधुमत्तमाः सोमा इन्द्राय मन्दिनः । पवित्रवन्तो अक्षरन्देवान्गच्छन्तु वो मदाः ॥५४७॥


स्वर रहित पद पाठ

सुतासः । मधुमत्तमाः । सोमाः । इन्द्राय । मन्दिनः । पवित्रवन्तः । अक्षरन् । देवान् । गच्छन्तु । वः । मदाः ॥५४७॥

सामवेद - मन्त्र संख्या : 547
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 2; दशतिः » 1; मन्त्र » 3
(राणानीय) पूर्वार्चिकः » अध्याय » 5; खण्ड » 8;
Acknowledgment

पदार्थः -
(मधुमत्तमाः) अतिशयमधुराः (मन्दिनः) हर्षकराः (सोमाः) परमानन्दरसाः (इन्द्राय) जीवात्मने (सुतासः) अभिषुताः (पवित्रवन्तः२) मनोरूपदशापवित्रयुक्ताः (अक्षरन्) आत्मकलशं प्र क्षरन्ति। ते (मदाः) परमानन्दरसाः (वः) युष्मान् (देवान्) सर्वान् विदुषः (गच्छन्तु) प्राप्नुवन्तु ॥३॥

भावार्थः - ध्यानद्वारा परमात्मनः सकाशात् प्रादुर्भूता मधुरमधुराः परमानन्दरसा मनसो माध्यमेन जीवात्मानमधिगच्छन्ति ॥३॥

इस भाष्य को एडिट करें
Top