Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 548
ऋषिः - मनुः सांवरणः देवता - पवमानः सोमः छन्दः - अनुष्टुप् स्वरः - गान्धारः काण्ड नाम - पावमानं काण्डम्
6

सो꣡माः꣢ पवन्त꣣ इ꣡न्द꣢वो꣣ऽस्म꣡भ्यं꣢ गातु꣣वि꣡त्त꣢माः । मि꣣त्राः꣢ स्वा꣣ना꣡ अ꣢रे꣣प꣡सः꣢ स्वा꣣꣬ध्यः꣢꣯ स्व꣣र्वि꣡दः꣢ ॥५४८॥

स्वर सहित पद पाठ

सो꣡माः꣢꣯ । प꣣वन्ते । इ꣡न्द꣢꣯वः । अ꣣स्म꣡भ्य꣢म् । गा꣣तुवि꣡त्त꣢माः । गा꣣तु । वि꣡त्त꣢꣯माः । मि꣣त्राः꣢ । मि꣣ । त्राः꣢ । स्वा꣣नाः꣢ । अ꣣रे꣢प꣡सः꣢ । अ꣣ । रेप꣡सः꣢ । स्वा꣣ध्यः꣢꣯ । सु꣣ । आध्यः꣢꣯ । स्व꣣र्वि꣡दः꣢ । स्वः꣣ । वि꣡दः꣢꣯ ॥५४८॥


स्वर रहित मन्त्र

सोमाः पवन्त इन्दवोऽस्मभ्यं गातुवित्तमाः । मित्राः स्वाना अरेपसः स्वाध्यः स्वर्विदः ॥५४८॥


स्वर रहित पद पाठ

सोमाः । पवन्ते । इन्दवः । अस्मभ्यम् । गातुवित्तमाः । गातु । वित्तमाः । मित्राः । मि । त्राः । स्वानाः । अरेपसः । अ । रेपसः । स्वाध्यः । सु । आध्यः । स्वर्विदः । स्वः । विदः ॥५४८॥

सामवेद - मन्त्र संख्या : 548
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 2; दशतिः » 1; मन्त्र » 4
(राणानीय) पूर्वार्चिकः » अध्याय » 5; खण्ड » 8;
Acknowledgment

पदार्थः -
(इन्दवः) प्रकाशमयाः रसेन क्लेदयितारो वा। इन्दुः इन्धेः उनत्तेर्वा। निरु० १०।४१। (सोमाः) परमानन्दरसाः (पवन्ते) अस्मान् पवित्रीकुर्वन्ति। ये (अस्मभ्यम्) अस्माकं कृते (गातुवित्तमाः) अतिशयेन सन्मार्गलम्भकाः, (मित्राः) मित्रभूताः। वेदे सुहृद्वाचको मित्रशब्दः पुंस्यपि दृश्यते। (स्वानाः) सुवानाः सद्गुणान् प्रति प्रेरयन्तः, (अरेपसः) निष्पापाः, निष्कलङ्काः, निर्दोषाः (स्वाध्यः) उत्कृष्टध्याने सहायकाः, (स्वर्विदः) मोक्षप्रापकाश्च सन्तीति शेषः। स्वः मोक्षसुखं वेदयन्ते प्रापयन्तीति तादृशाः ॥४॥ अत्र साभिप्रायाणां बहूनां विशेषणानां योगात् परिकरालङ्कारः ॥४॥२

भावार्थः - ये ब्रह्मानन्दरसा जीवने सन्मार्गदर्शकाः सुहृद्वत् परमोपकारकाः शुभगुणप्रेरकाः ध्याने सहायकाः मोक्षप्रापकाश्च भवन्ति ते पावकाः कुतो न स्युः ॥४॥

इस भाष्य को एडिट करें
Top