Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 56
ऋषिः - कण्वो घौरः देवता - ब्रह्मणस्पतिः छन्दः - बृहती स्वरः - मध्यमः काण्ड नाम - आग्नेयं काण्डम्
7

प्रै꣢तु꣣ ब्र꣡ह्म꣢ण꣣स्प꣢तिः꣣ प्र꣢ दे꣣꣬व्ये꣢꣯तु सू꣣नृ꣡ता꣢ । अ꣡च्छा꣢ वी꣣रं꣡ न꣢꣯र्यं प꣣ङ्क्ति꣡रा꣢धसं दे꣣वा꣢ य꣣ज्ञं꣡ न꣢यन्तु नः ॥५६॥

स्वर सहित पद पाठ

प्र꣢ । ए꣣तु । ब्रह्म꣢꣯णः प꣡तिः꣢꣯ । प्र । दे꣣वी꣢ । ए꣣तु । सूनृ꣡ता꣢ । सु꣣ । नृ꣡ता꣢꣯ । अ꣡च्छ꣢꣯ । वी꣣र꣢म् । न꣡र्य꣢꣯म् । प꣣ङ्क्ति꣡रा꣢धसम् । प꣣ङ्क्ति꣢म् । रा꣣धसम् । देवाः꣢ । य꣣ज्ञ꣢म् । न꣣यन्तु । नः ॥५६॥


स्वर रहित मन्त्र

प्रैतु ब्रह्मणस्पतिः प्र देव्येतु सूनृता । अच्छा वीरं नर्यं पङ्क्तिराधसं देवा यज्ञं नयन्तु नः ॥५६॥


स्वर रहित पद पाठ

प्र । एतु । ब्रह्मणः पतिः । प्र । देवी । एतु । सूनृता । सु । नृता । अच्छ । वीरम् । नर्यम् । पङ्क्तिराधसम् । पङ्क्तिम् । राधसम् । देवाः । यज्ञम् । नयन्तु । नः ॥५६॥

सामवेद - मन्त्र संख्या : 56
(कौथुम) पूर्वार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 2; दशतिः » 1; मन्त्र » 2
(राणानीय) पूर्वार्चिकः » अध्याय » 1; खण्ड » 6;
Acknowledgment

पदार्थः -
(ब्रह्मणस्पतिः) ब्रह्मणो वेदस्य ब्रह्माण्डस्य सकलैश्वर्यस्य वा स्वामी जगदीश्वरः२ (प्र एतु) अस्मान् प्राप्नोतु। (देवी) दिव्यगुणयुक्ता (सूनृता) प्रियसत्यात्मिका वाक् (प्र एतु) अस्मान् प्राप्नोतु। (देवाः) विद्वांसः विदुष्यश्च। देवाश्च देव्यश्च इति देवाः, अत्र एकशेषः। (नः) अस्माकम् (यज्ञम्) राष्ट्ररूपम् अध्वरम् (अच्छ) प्रति। संहितायां निपातस्य च। अ० ६।–३।१३६ इति दीर्घः। (नर्यम्) नरेषु साधुम्, नरहितकारिणम् (पङ्क्तिराधसम्३) यः पङ्क्तीः धर्मात्मवीरमनुष्याणां श्रेणीः राध्नोति सेवते, यद्वा पङ्क्त्यर्थं राधो धनं यस्य तम्।४ राध संसिद्धौ। राध इति धननाम। निघं० २।—१०। (वीरम्) पूर्णशरीरात्मबलयुक्तं सन्तानम् (नयन्तु) प्रापयन्तु ॥२॥५

भावार्थः - वेदस्य, ब्रह्माण्डस्य, सकलैश्वर्यस्य च स्वामी परमेश्वरः मधुरा प्रिया सत्या वाग्, नरहितकर्ता धर्मात्मनां सेवकः सत्कार्येषु धनस्य दाता पुत्रश्च यदि प्राप्यते, तर्हि नूनं सर्वा अपि सिद्धयो हस्तगता भवन्ति ॥२॥

इस भाष्य को एडिट करें
Top