Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 616
ऋषिः - वामदेवो गौतमः
देवता - अग्निः
छन्दः - पङ्क्तिः
स्वरः - पञ्चमः
काण्ड नाम - आरण्यं काण्डम्
4
व꣣स꣡न्त इन्नु रन्त्यो꣢꣯ ग्री꣣ष्म꣡ इन्नु रन्त्यः꣢꣯ । व꣣र्षा꣡ण्यनु꣢꣯ श꣣र꣡दो꣢ हेम꣣न्तः꣡ शिशि꣢꣯र꣣ इन्नु꣡ रन्त्यः꣢꣯ ॥६१६
स्वर सहित पद पाठव꣣सन्तः꣢ । इत् । नु । र꣡न्त्यः꣢꣯ । ग्री꣣ष्मः꣢ । इत् । नु । र꣡न्त्यः꣢꣯ । व꣣र्षा꣡णि꣢ । अ꣡नु꣢꣯ । श꣣र꣡दः꣢ । हे꣣मन्तः꣢ । शि꣡शि꣢꣯रः । इत् । र꣡न्त्यः꣢꣯ ॥६१६॥
स्वर रहित मन्त्र
वसन्त इन्नु रन्त्यो ग्रीष्म इन्नु रन्त्यः । वर्षाण्यनु शरदो हेमन्तः शिशिर इन्नु रन्त्यः ॥६१६
स्वर रहित पद पाठ
वसन्तः । इत् । नु । रन्त्यः । ग्रीष्मः । इत् । नु । रन्त्यः । वर्षाणि । अनु । शरदः । हेमन्तः । शिशिरः । इत् । रन्त्यः ॥६१६॥
सामवेद - मन्त्र संख्या : 616
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 3; दशतिः » 4; मन्त्र » 2
(राणानीय) पूर्वार्चिकः » अध्याय » 6; खण्ड » 4;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 3; दशतिः » 4; मन्त्र » 2
(राणानीय) पूर्वार्चिकः » अध्याय » 6; खण्ड » 4;
Acknowledgment
विषयः - अथ ऋतुर्देवता। सर्वेषामृतूनां रमणीयत्वमाह।
पदार्थः -
परमेश्वरस्य सृष्टौ (वसन्तः) वसन्तर्तुः (इत् नु) निश्चयेन (रन्त्यः) रमणीयः रमयिता च अस्ति, (ग्रीष्मः) ग्रीष्मर्तुः (इत् नु) निश्चयेन (रन्त्यः) रमणीयः रमयिता च अस्ति। (वर्षाणि अनु) वर्षर्तुदिनानामनन्तरम् (शरदः) शरद्दिवसाः, (हेमन्तः) हेमन्त ऋतुश्चापि रन्त्याः रमणीयाः रमयितारश्च भवन्ति। (शिशिरः) शिशिरर्तुरपि (इत् नु) निश्चयेन (रन्त्यः) रमणीयो रमयिता च भवति। रमु क्रीडायाम् इति धातोः बाहुलकात् त्यन् प्रत्ययः ॥२॥ अत्र ‘इन्नु रन्त्यः’ इत्यस्यावृत्तौ लाटानुप्रासः ॥२॥
भावार्थः - ये परमेश्वरविश्वासिनो भवन्ति ते प्रत्येकमृतुं रमणीयमाह्लाददायकं च मन्यमानास्तज्जनितमानन्दमनुभवन्ति। ये तु ‘अहह, संतापको निदाघः, पङ्कबहुला प्रावृट्, कष्टशीतो हेमन्तः’ इत्यादिप्रकारेण छिद्राण्यन्विष्यन्तः सर्वानेव ऋतून् धिक्कुर्वन्ति ते खलु दुर्भाग्यग्रस्ता एव ॥२॥
इस भाष्य को एडिट करें