Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 645
ऋषिः - प्रजापतिः देवता - इन्द्रः छन्दः - विराडनुष्टुप् स्वरः - गान्धारः काण्ड नाम - 0
8

यो꣢꣯ मꣳहि꣢꣯ष्ठो मघोनामꣳशुर्न शोचिः । चि꣡कि꣢त्वो अ꣣भि꣡ नो꣢ न꣣ये꣡न्द्रो꣢ विदे꣢꣯ तमु꣢꣯ स्तुहि ॥६४५

स्वर सहित पद पाठ

यः꣢ । मँ꣡हि꣢꣯ष्ठः । म꣣घो꣡ना꣢म् । अँ꣣शुः꣢ । न । शो꣣चिः꣢ । चि꣡कि꣢꣯त्वः । अ꣣भि꣢ । नः꣣ । नय । इ꣡न्द्रः꣢꣯ । वि꣣दे꣢ । तम् । उ꣣ । स्तुहि ॥६४५॥


स्वर रहित मन्त्र

यो मꣳहिष्ठो मघोनामꣳशुर्न शोचिः । चिकित्वो अभि नो नयेन्द्रो विदे तमु स्तुहि ॥६४५


स्वर रहित पद पाठ

यः । मँहिष्ठः । मघोनाम् । अँशुः । न । शोचिः । चिकित्वः । अभि । नः । नय । इन्द्रः । विदे । तम् । उ । स्तुहि ॥६४५॥

सामवेद - मन्त्र संख्या : 645
(कौथुम) महानाम्न्यार्चिकः » प्रपाठक » ; अर्ध-प्रपाठक » ; दशतिः » ; मन्त्र » 5
(राणानीय) महानाम्न्यार्चिकः » अध्याय » ; खण्ड » ;
Acknowledgment

पदार्थः -
(यः) यस्त्वम्, (मघोनाम्) धनवताम् (मंहिष्ठः) दातृतमः असि, किञ्च (अंशुः न) सूर्यरश्मिः इव (शोचिः) शोचिष्मान् असि, सः हे (चिकित्वः) ज्ञानवन्, सदा जागरूक परमात्मन् ! त्वम् (नः अभि) अस्मान् प्रति (नय) दातृत्वतेजोज्ञानजागरूकत्वादिकं प्रापय। हे मनुष्य ! (इन्द्रः) परमेश्वरः (विदे) उपकर्तुं जानाति, (तम् उ) तमेव (स्तुहि) स्तुत्या सभाजय ॥ (शोचिः) अत्र मत्वर्थीयस्य लोपः। (चिकित्वः) कित ज्ञाने, लिटः क्वसुः सम्बुद्धौ ‘मतुवसो रु सम्बुद्धौ छन्दसि’ अ० ८।३।१ इति रुत्वम्। (विदे) विद ज्ञाने, आत्मनेपदं छान्दसम्, ‘वित्ते’ इति प्राप्ते ‘लोपस्त आत्मनेपदेषु’ अ० ७।१।४१ इति तलोपः ॥५॥ अत्र ‘अंशुर्न शोचिः’ इत्युपमालङ्कारः ॥५॥

भावार्थः - यो जगदीश्वरः परमो दाता, परमस्तेजस्वी, परमो विद्वान्, परमो जागरूकः, परमः परोपकर्ता च विद्यते तमुपास्य सर्वैर्दातृभिस्तेजस्विभिर्विद्भिर्जागरूकैः परोपकर्तृभिश्च भाव्यम् ॥५॥

इस भाष्य को एडिट करें
Top