Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 648
ऋषिः - प्रजापतिः देवता - इन्द्रः छन्दः - विराडनुष्टुप् स्वरः - गान्धारः काण्ड नाम - 0
5

पू꣡र्व꣢स्य꣣ य꣡त्ते꣢ अद्रिवो꣣ꣳऽशु꣢꣯र्मदा꣢꣯य । सु꣣म्न꣡ आ धे꣢꣯हि नो वसो पू꣣र्तिः꣡ श꣢विष्ठ शस्यते । व꣣शी꣢꣫ हि श꣣क्रो꣢ नू꣣नं꣡ तन्नव्य꣢꣯ꣳ सं꣣न्य꣡से꣢ ॥६४८

स्वर सहित पद पाठ

पू꣡र्व꣢꣯स्य । यत् । ते꣣ । अद्रिवः । अ । द्रिवः । अँशुः꣢ । म꣡दा꣢꣯य । सु꣣म्ने꣢ । आ । धे꣣हि । नः । वसो । पूर्तिः꣢ । श꣣विष्ठ । शस्यते । व꣣शी꣢ । हि । श꣣क्रः꣢ । नू꣣न꣢म् । तत् । न꣡व्य꣢꣯म् । सं꣣न्य꣡से꣢ ॥६४८॥


स्वर रहित मन्त्र

पूर्वस्य यत्ते अद्रिवोꣳऽशुर्मदाय । सुम्न आ धेहि नो वसो पूर्तिः शविष्ठ शस्यते । वशी हि शक्रो नूनं तन्नव्यꣳ संन्यसे ॥६४८


स्वर रहित पद पाठ

पूर्वस्य । यत् । ते । अद्रिवः । अ । द्रिवः । अँशुः । मदाय । सुम्ने । आ । धेहि । नः । वसो । पूर्तिः । शविष्ठ । शस्यते । वशी । हि । शक्रः । नूनम् । तत् । नव्यम् । संन्यसे ॥६४८॥

सामवेद - मन्त्र संख्या : 648
(कौथुम) महानाम्न्यार्चिकः » प्रपाठक » ; अर्ध-प्रपाठक » ; दशतिः » ; मन्त्र » 8
(राणानीय) महानाम्न्यार्चिकः » अध्याय » ; खण्ड » ;
Acknowledgment

पदार्थः -
हे (अद्रिवः) मेघानां स्वामिन् धर्ममेघसमाधौ सहायक वा परमेश्वर ! (यत्) यस्मात् (पूर्वस्य) श्रेष्ठस्य (ते) तव (अंशुः) तेजोरश्मिः (मदाय) आनन्दाय भवति, तस्मात्, हे (वसो) निवासक ! (नः) अस्मान् (सुम्ने) सुखे, मोक्षानन्दे (आ धेहि) आस्थापय। हे (शविष्ठ) बलिष्ठ परमात्मन् ! (पूर्तिः) त्वज्जनिता परिपूर्णता (शस्यते) सर्वैः प्रशस्यते। (शक्रः) सर्वशक्तिमान् त्वम् (नूनम्) अद्य (वशी हि) मम वशकर्ता किल सञ्जातः, (तत्) तस्मात् त्वद्वशवर्ती अहम् (नव्यम्) नूतनत्वेन आभासमानं पुत्रैषणावित्तैषणालोकैषणारूपं लौकिकचाकचक्यम् (संन्यसे१) परित्यजामि, परित्यज्य संन्यासाश्रमं प्रविशामीत्यर्थः। तत्र च (नव्यम्) स्तुत्यम् इन्द्रं परमेश्वरम् (संन्यसे) सम्यग् हृदि धारयामि इति द्वितीयोऽपि श्लेषमूलोऽर्थोऽध्यवसेयः। (संन्यसे) इत्यत्र हि योगात् ‘छन्दस्यनेकमपि साकाङ्क्षम्’ अ० ८।१।३५ इति निघातप्रतिषेधः। (अद्रिवः) अद्रिः मेघनाम। निघं० १।१० ॥८॥

भावार्थः - आपातरमणीयाः खलु भोगाः। धन्यास्ते ये तान् परिहृत्य संन्यासाश्रमं प्रविश्य निष्कामलोकसेवाव्रतमङ्गीकृत्य ब्रह्मणि लीना भवन्ति ॥८॥

इस भाष्य को एडिट करें
Top