Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 650
ऋषिः - प्रजापतिः देवता - लिङ्गोक्ताः छन्दः - पदपङ्क्तिः स्वरः - पञ्चमः काण्ड नाम - 0
6

ए꣣वा꣢ह्येऽ३ऽ३ऽ३व꣡ । ए꣣वा꣡ ह्य꣢ग्ने । ए꣣वा꣡ही꣢न्द्र । ए꣣वा꣡ हि पू꣢꣯षन् । ए꣣वा꣡ हि दे꣢꣯वाः ॐ ए꣣वा꣡हि दे꣢꣯वाः ॥६५०

स्वर सहित पद पाठ

ए꣣व꣢ । हि । ए꣣व꣢ । ए꣢व । हि । अ꣣ग्ने । एव꣢ । हि । इ꣣न्द्र । एव꣢ । हि । पू꣣षन् । एव꣢ । हि । दे꣣वाः । ॐ ए꣣वा꣡हिदे꣢꣯वाः ॥६५०॥


स्वर रहित मन्त्र

एवाह्येऽ३ऽ३ऽ३व । एवा ह्यग्ने । एवाहीन्द्र । एवा हि पूषन् । एवा हि देवाः ॐ एवाहि देवाः ॥६५०


स्वर रहित पद पाठ

एव । हि । एव । एव । हि । अग्ने । एव । हि । इन्द्र । एव । हि । पूषन् । एव । हि । देवाः । ॐ एवाहिदेवाः ॥६५०॥

सामवेद - मन्त्र संख्या : 650
(कौथुम) महानाम्न्यार्चिकः » प्रपाठक » ; अर्ध-प्रपाठक » ; दशतिः » ; मन्त्र » 10
(राणानीय) महानाम्न्यार्चिकः » अध्याय » ; खण्ड » ;
Acknowledgment

पदार्थः -
हे इन्द्र परमेश्वर ! (एव हि एव) एवं खलु एवम्, सत्यमेव त्वं पूर्वोक्तगुणविशिष्टोऽसीति भावः ॥ हे (अग्ने) अग्रनायक इन्द्र परमात्मन् ! (एव हि) एवमेव खलु, सत्यमेव त्वम् उक्तगुणविशिष्टोऽसि ॥ हे (इन्द्र) परमैश्वर्यवन्, रिपुविदारक, विद्याविवेकादिप्रकाशक जगदीश्वर ! (एव हि) एवमेव किल, सत्यमेव (त्वम्) उक्तगुणविशिष्टोऽसि ॥ हे (पूषन्) परिपोषक इन्द्र जगत्पते ! (एव हि) एवं खलु, सत्यमेव त्वम् उक्तगुणविशिष्टोऽसि ॥ हे (देवाः) इन्द्राख्यपरमेश्वराधीनाः दिव्यगुणविशिष्टा विद्वांसः ! (एव हि) सत्यं खलु यूयम् इन्द्रस्य प्रजाः स्थ ॥ (एवा) संहितायां ‘निपातस्य च’ अ० ६।३।१३६ इति दीर्घः। (पूषन्) अथ यद् रश्मिपोषं पुष्यति तत् पूषा भवति, निरु० १२।१७। (देवाः) ‘अथ यदिन्द्रे सर्वा देवतास्तत्स्थानाः, तस्मादाहुः इन्द्रः सर्वा देवताः।’ श० १।६।३।२२ ॥१०॥

भावार्थः - इन्द्रे परमात्मनि सत्यमेव मघवत्व-शचीपतित्व-प्रचेतनत्व- शक्रत्व-मंहिष्ठत्व-शविष्ठत्व-वज्रित्व-जेतृत्वप्रभृतयो वेदोक्ता गुणाः सन्ति, ये सर्वैरनुकरणीयाः ॥१०॥ इति बरेलीमण्डलान्तर्गतफरीदपुरवास्तव्यश्रीमद्गोपालराम-भगवतीदेवी- तनयेन हरिद्वारीयगुरुकुलकाङ्गड़ीविश्वविद्यालयेऽधीतविद्येन विद्यामार्तण्डेन आचार्यरामनाथवेदालङ्कारेण महर्षिदयानन्द- सरस्वतीस्वामिकृतवेदभाष्यशैलीमनुसृत्य विरचिते संस्कृतार्य- भाषाभ्यां समन्विते सुप्रमाणयुक्ते सामवेदभाष्येमहा- नाम्न्यार्चिकः समाप्तिमगात् ॥ वेदवेदखनेत्रेऽब्देपौषेमासिसिते दले । द्वादश्यां गुरुवारे च व्याख्येयं पूर्तिमागता ॥

इस भाष्य को एडिट करें
Top