Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 651
ऋषिः - असितः काश्यपो देवलो वा
देवता - पवमानः सोमः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
5
उ꣡पा꣢स्मै गायता नरः꣣ प꣡व꣢माना꣣ये꣡न्द꣢वे । अ꣣भि꣢ दे꣣वा꣡ꣳ इय꣢꣯क्षते ॥६५१॥
स्वर सहित पद पाठउ꣡प꣢꣯ । अ꣣स्मै । गायत । नरः । प꣡व꣢꣯मानाय । इ꣡न्द꣢꣯वे । अ꣣भि꣢ । दे꣣वा꣢न् । इ꣡य꣢꣯क्षते ॥६५१॥
स्वर रहित मन्त्र
उपास्मै गायता नरः पवमानायेन्दवे । अभि देवाꣳ इयक्षते ॥६५१॥
स्वर रहित पद पाठ
उप । अस्मै । गायत । नरः । पवमानाय । इन्दवे । अभि । देवान् । इयक्षते ॥६५१॥
सामवेद - मन्त्र संख्या : 651
(कौथुम) उत्तरार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 1; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 1; खण्ड » 1; सूक्त » 1; मन्त्र » 1
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 1; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 1; खण्ड » 1; सूक्त » 1; मन्त्र » 1
Acknowledgment
विषयः - तत्रादौ परमात्मानं प्रति मनुष्याणां कर्तव्यं वर्णयति।
पदार्थः -
हे (नरः) मनुष्याः ! यूयम् (देवान्) अहिंसासत्यन्यायादिदिव्यगुणान् (अभि इयक्षते) प्रदातुमिच्छते [यजतेर्दानार्थात् सनि शतरि रूपम्। यियक्षते इति प्राप्ते अभ्यासयकारलोपश्छान्दसः] (अस्मै) एतस्मै (पवमानाय) पवित्रताप्रदायिने (इन्दवे) आनन्दरसेन क्लेदकाय सोमाख्याय परमात्मने [उनत्ति क्लेदयति उपासकान् स्वरसेन यः स इन्दुः। ‘उन्देरिच्चादेः’ उ० १.१२ इति उन्दी क्लेदने धातोः उः प्रत्ययः धातोरुकारस्येकारादेशश्च।] (उपगायत) सामीप्येन स्तुतिगीतानि उच्चारयत ॥१॥२
भावार्थः - सर्वैः स्त्रीपुरुषैर्जगदीशस्य स्तुतिगीतानि कीर्तयित्वा ततः प्रेरणां प्राप्यात्मोन्नतिर्विधेया ॥१॥
टिप्पणीः -
१. ऋ० ९।११।१, य० ३३।६२ ऋषिः देवलः, देवता सोमः। साम० ७६३। २. यजुर्भाष्ये दयानन्दर्षिणा मन्त्रोऽयं गुरुशिष्यविषये व्याख्यातः।