Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 662
ऋषिः - भरद्वाजो बार्हस्पत्यः देवता - अग्निः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
5

स꣡ नः꣢ पृ꣣थु꣢ श्र꣣वा꣢य्य꣣म꣡च्छा꣢ देव विवाससि । बृ꣣ह꣡द꣢ग्ने सु꣣वी꣡र्य꣢म् ॥६६२॥

स्वर सहित पद पाठ

सः꣢ । नः꣣ । पृ꣢थु । श्र꣣वा꣡य्य꣢म् । अ꣡च्छ꣢꣯ । दे꣣व । विवाससि । बृह꣢त् । अ꣣ग्ने । सु꣡वी꣢र्यम् । सु꣣ । वी꣡र्य꣢꣯म् ॥६६२॥


स्वर रहित मन्त्र

स नः पृथु श्रवाय्यमच्छा देव विवाससि । बृहदग्ने सुवीर्यम् ॥६६२॥


स्वर रहित पद पाठ

सः । नः । पृथु । श्रवाय्यम् । अच्छ । देव । विवाससि । बृहत् । अग्ने । सुवीर्यम् । सु । वीर्यम् ॥६६२॥

सामवेद - मन्त्र संख्या : 662
(कौथुम) उत्तरार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 4; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 1; खण्ड » 2; सूक्त » 1; मन्त्र » 3
Acknowledgment

पदार्थः -
हे (देव) सुप्रकाशक (अग्ने) भोतिकाग्ने, अन्तरात्मन्, परमात्मन् वा ! (सः) प्रसिद्धः त्वम् (नः अच्छ) अस्मान् प्रति (पृथु) विपुलम्, (श्रवाय्यम्) कीर्तिजनकम्। [श्रावयतीति श्रवाय्यः। श्रु धातोः ‘श्रुदक्षिस्पृहिगृहिभ्य आय्यः उ० ३।९६’ इति आय्यप्रत्ययः।] (बृहत्) महत्। (सुवीर्यम्) सुवीर्योपेतम् भौतिकाध्यात्मिकं धनम् (विवाससि२) परिचर प्रेषय इत्यर्थः। विवासतिः परिचर्याकर्मा। निघं० ३।५, विध्यर्थे लेट् परिचरणं चात्र प्रापणम् ॥३॥३

भावार्थः - भौतिकाग्निर्यथा यज्ञे शिल्पकर्मणि च योजितः स्वास्थ्यधनधान्यादिकं प्रापयति तथैवात्माग्निरुद्बोधितः परमात्माग्निश्चोपासितो महतीमध्यात्मसम्पदं प्रयच्छति ॥३॥

इस भाष्य को एडिट करें
Top