Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 669
ऋषिः - विश्वामित्रो गाथिनः
देवता - इन्द्राग्नी
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
4
इ꣡न्द्रा꣢ग्नी꣣ आ꣡ ग꣢तꣳ सु꣣तं꣢ गी꣣र्भि꣢꣫र्न꣣भो व꣡रे꣢ण्यम् । अ꣣स्य꣡ पा꣢तं धि꣣ये꣢षि꣣ता꣢ ॥६६९॥
स्वर सहित पद पाठइ꣡न्द्रा꣢꣯ग्नी । इ꣡न्द्र꣢꣯ । अ꣣ग्नीइ꣡ति꣢ । आ । ग꣣तम् । सुत꣢म् । गी꣣र्भिः꣢ । न꣡भः꣢꣯ । व꣡रेण्य꣢꣯म् । अ꣣स्य꣢ । पा꣣तम् । धिया꣢ । इ꣣षि꣢ता ॥६६९॥
स्वर रहित मन्त्र
इन्द्राग्नी आ गतꣳ सुतं गीर्भिर्नभो वरेण्यम् । अस्य पातं धियेषिता ॥६६९॥
स्वर रहित पद पाठ
इन्द्राग्नी । इन्द्र । अग्नीइति । आ । गतम् । सुतम् । गीर्भिः । नभः । वरेण्यम् । अस्य । पातम् । धिया । इषिता ॥६६९॥
सामवेद - मन्त्र संख्या : 669
(कौथुम) उत्तरार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 7; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 1; खण्ड » 2; सूक्त » 4; मन्त्र » 1
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 7; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 1; खण्ड » 2; सूक्त » 4; मन्त्र » 1
Acknowledgment
विषयः - तत्रादौ ‘इन्द्राग्नी’ इत्यनेन जीवात्मानं मनश्च आह्वयति। इन्द्रः आत्मा प्रसिद्धः। अग्निश्च मनः, ‘मन एवाग्निः’ श० १०।१।२।३ इति प्रामाण्यात्।
पदार्थः -
हे (इन्द्राग्नी) आत्ममनसी ! युवाम् (गीर्भिः) गुरूणां वाग्भिः (सुतम्) अभिषुतम्, निष्पादितम् (नभः) सूर्यमिव प्रकाशमानम्। [नभः आदित्यो भवति, नेता रसानां, नेता भासां, ज्योतिषां प्रणयः, अपि वा भन एव स्याद् विपरीतः, न भातीति वा निरु० २।१४।] (वरेण्यम्) वरणीयं श्रेष्ठं वा ज्ञानरूपं सोमरसं प्रति। [वृञ् वरणे धातोः ‘वृञ एण्यः’ उ० ३।९८, इति एण्यः प्रत्ययः।] (आ गतम्२) आगच्छतम्। (धिया) बुद्ध्या (इषिता) इषितौ तत्परौ प्रयतमानौ युवाम् (अस्य) एतस्य ज्ञानरसस्य इमं ज्ञानरसमित्यर्थः। [द्वितीयार्थे, षष्ठी।] (पातम्) रक्षतम् ॥१॥३ अत्र ‘नभ’ इत्यत्र वाचकधर्मलुप्तोपमालङ्कारः ॥१॥
भावार्थः - वाचस्पतिना गुरुणा शिष्याय यज्ज्ञानमुपदिश्यते तत् तेन सावधानतया स्वात्ममनोबुद्धियोगपूर्वकं श्रुत्वा मत्वा च हृदि धारणीयं प्रचारणीयं तदनुकूलमाचरणीयं च ॥१॥
टिप्पणीः -
१. ऋ० ३।१२।१ २. अत्र गम्लृ गतौ इत्यस्माद् ‘बहुलं छन्दसि’ इति शपो लुकि सति शित्वाभावाच्छस्याभावो ‘अनुदात्तोपदेश’ इत्यादिना मलोपश्च—इति य० ७।८ भाष्ये द०। ३. दयानन्दर्षिर्मन्त्रमिमम् ऋग्भाष्ये अध्यापकोपदेशकविषये व्याख्यातवान्।