Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 670
ऋषिः - विश्वामित्रो गाथिनः
देवता - इन्द्राग्नी
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
4
इ꣡न्द्रा꣢ग्नी जरि꣣तुः꣡ सचा꣢꣯ य꣣ज्ञो꣡ जि꣢गाति꣣ चे꣡त꣢नः । अ꣣या꣡ पा꣢तमि꣣म꣢ꣳ सु꣣त꣢म् ॥६७०॥
स्वर सहित पद पाठइ꣡न्द्रा꣢꣯ग्नी । इ꣡न्द्र꣢꣯ । अ꣣ग्नीइ꣡ति꣢ । ज꣢रितुः꣣ । स꣡चा꣢꣯ । य꣣ज्ञः꣢ । जि꣢गाति । चे꣡तनः꣢꣯ । अ꣣या꣢ । पा꣣तम् । इम꣢म् । सु꣣त꣢म् ॥६७०॥
स्वर रहित मन्त्र
इन्द्राग्नी जरितुः सचा यज्ञो जिगाति चेतनः । अया पातमिमꣳ सुतम् ॥६७०॥
स्वर रहित पद पाठ
इन्द्राग्नी । इन्द्र । अग्नीइति । जरितुः । सचा । यज्ञः । जिगाति । चेतनः । अया । पातम् । इमम् । सुतम् ॥६७०॥
सामवेद - मन्त्र संख्या : 670
(कौथुम) उत्तरार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 7; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 1; खण्ड » 2; सूक्त » 4; मन्त्र » 2
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 7; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 1; खण्ड » 2; सूक्त » 4; मन्त्र » 2
Acknowledgment
विषयः - अथ पुनस्तमेव विषयमाह।
पदार्थः -
हे (इन्द्राग्नी) आत्ममनसी ! (जरितुः) स्तोतुः उपदेष्टुः आचार्यस्य (सचा) गुरुशिष्याभ्यां सह मिलित्वा सम्पादितः (चेतनः) चेतयिता ज्ञापयिता (यज्ञः) विद्यायज्ञः (जिगाति२) प्रवर्तते। [जिगाति गतिकर्मा। निघ० २।१४।] युवाम् (अया) अनया दिशा (सुतम्) निष्पादितम् (इमम्) एतं ज्ञानयज्ञम् (पातम्) रक्षतम् ॥२॥
भावार्थः - गुरुशिष्याः परस्परं मिलित्वैव ज्ञानयज्ञमनुष्ठाय राष्ट्रे सर्वप्रकारा विद्याः प्रचारयन्ति ॥२॥
टिप्पणीः -
१. ऋ० ३।१२।२, ऋग्भाष्ये दयानन्दर्षिरेतमपि मन्त्रमध्यापकोपदेशक- विषये व्याचख्यौ। २. जिगाति गायति चेतनः, लुप्तोपमानमिदं चेतन इव—इति वि०।