Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 671
ऋषिः - विश्वामित्रो गाथिनः
देवता - इन्द्राग्नी
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
6
इ꣡न्द्र꣢म꣣ग्निं꣡ क꣢वि꣣च्छ꣡दा꣢ य꣣ज्ञ꣡स्य꣢ जू꣣त्या꣡ वृ꣢णे । ता꣡ सोम꣢꣯स्ये꣣ह꣡ तृ꣢म्पताम् ॥६७१॥
स्वर सहित पद पाठइ꣡न्द्र꣢꣯म् । अ꣣ग्नि꣢म् । क꣣विच्छ꣡दा꣢ । क꣣वि । छ꣡दा꣢꣯ । य꣣ज्ञ꣡स्य꣢ । जू꣣त्या꣢ । वृ꣣णे । ता꣢ । सो꣢म꣢꣯स्य । इ꣡ह꣢ । तृ꣣म्पताम् ॥६७१॥
स्वर रहित मन्त्र
इन्द्रमग्निं कविच्छदा यज्ञस्य जूत्या वृणे । ता सोमस्येह तृम्पताम् ॥६७१॥
स्वर रहित पद पाठ
इन्द्रम् । अग्निम् । कविच्छदा । कवि । छदा । यज्ञस्य । जूत्या । वृणे । ता । सोमस्य । इह । तृम्पताम् ॥६७१॥
सामवेद - मन्त्र संख्या : 671
(कौथुम) उत्तरार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 7; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 1; खण्ड » 2; सूक्त » 4; मन्त्र » 3
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 7; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 1; खण्ड » 2; सूक्त » 4; मन्त्र » 3
Acknowledgment
विषयः - अथ पुनरपि तमेव विषयमाह।
पदार्थः -
अहम् (यज्ञस्य) विद्यायज्ञस्य (जूत्या२) जूत्यै वेगाय, सद्यः साधनाय। [जु गतौ। जूतिशब्दात् चतुर्थ्यैकवचने ‘सुपां सुलुक्०’ इति विभक्तेराकारादेशः।] (कविच्छदा) कविच्छदौ, कवीन् मेधाविनः छादयतः दुःखविपदादिभ्यः अपवारयतः इति तौ। [छद अपवारणे ‘सुपां सुलुक्०’ इति विभक्तेराकारादेशः।] (इन्द्रम् अग्निम्) आत्मानं मनश्च (वृणे) संभजामि। [वृङ् सम्भक्तौ, क्र्यादि।] (ता) तौ (इह) अस्मिन् विद्यायज्ञे (सोमस्य) ज्ञानरसेन [तृतीयार्थे षष्ठी।] (तृम्पताम्) तृप्तिं कारयताम्। [तृम्प तृप्तौ, तुदादिः] ॥३॥३
भावार्थः - आत्ममनोरूपाभ्यां यजमानहोतृभ्याम् आचार्यरूपेण ब्रह्मणा च सम्पादितो विद्यायज्ञः सफलः प्रभावकारी च जायते ॥३॥ प्रथमे खण्डे परब्रह्मणो ब्रह्मानन्दस्य च वर्णनाद् द्वितीये च खण्डे स ब्रह्मानन्दरसस्तदैव प्राप्तुं शक्यते यदा जीवात्मा मनश्च तदर्थं प्रयतेते इति प्रदर्शनाद् द्वितीयखण्डस्य प्रथमखण्डेन संगतिरस्तीति विज्ञेयम्।
टिप्पणीः -
१. ऋ० ३।१२।३। २. जूत्या अभिवृद्ध्या निमित्तभूतया—इति वि०। ३. ऋग्भाष्ये दयानन्दर्षिर्मन्त्रमिमं विद्वत्सङ्गविषये व्याख्यातवान्।