Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 680
ऋषिः - वसिष्ठो मैत्रावरुणिः देवता - इन्द्रः छन्दः - प्रगाथः(विषमा बृहती समा सतोबृहती) स्वरः - मध्यमः काण्ड नाम -
7

अ꣣भि꣡ त्वा꣢ शूर नोनु꣣मो꣡ऽदु꣢ग्धा इव धे꣣न꣡वः꣢ । ई꣡शा꣢न꣣म꣡स्य जग꣢꣯तः स्व꣣र्दृ꣢श꣣मी꣡शा꣢नमिन्द्र त꣣स्थु꣡षः꣢ ॥६८०॥

स्वर सहित पद पाठ

अ꣣भि꣢ । त्वा꣣ । शूर । ना꣡नु꣢꣯मः । अ꣡दु꣢꣯ग्धाः । अ । दु꣣ग्धाः । इव । धे꣡न꣢वः । ई꣡शा꣢꣯नम् । अ꣣स्य꣢ । ज꣡ग꣢꣯तः । स्व꣣र्दृ꣡श꣢म् । स्वः꣣ । दृ꣡श꣢꣯म् । ई꣡शा꣢꣯नम् । इ꣣न्द्र । तस्थु꣡षः꣢ ॥६८०॥


स्वर रहित मन्त्र

अभि त्वा शूर नोनुमोऽदुग्धा इव धेनवः । ईशानमस्य जगतः स्वर्दृशमीशानमिन्द्र तस्थुषः ॥६८०॥


स्वर रहित पद पाठ

अभि । त्वा । शूर । नानुमः । अदुग्धाः । अ । दुग्धाः । इव । धेनवः । ईशानम् । अस्य । जगतः । स्वर्दृशम् । स्वः । दृशम् । ईशानम् । इन्द्र । तस्थुषः ॥६८०॥

सामवेद - मन्त्र संख्या : 680
(कौथुम) उत्तरार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 11; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 1; खण्ड » 4; सूक्त » 1; मन्त्र » 1
Acknowledgment

पदार्थः -
हे (शूर इन्द्र) वीर अस्मदीय अन्तरात्मन् ! वयम् (त्वा अभि) त्वाम् अभिलक्ष्य नोनुमः भूयोभूयोऽतिशयेन स्तुमः। [णु स्तुतौ अदादिः, णू स्तवने वा तुदादिः, यङ्लुकि रुपम्।] कथमिव ? (अदुग्धाः) दोहनम् अप्राप्ताः (धेनवः इव) गावो यथा दोहनोत्कण्ठाद्योतनाय नोनुवन्ति रम्भायन्ते। कीदृशं त्वाम् ? (अस्य) एतस्य (जगतः) जङ्गमस्य मनसः। [ध्रु॒वं ज्योति॒र्निहि॑तं दृ॒शये॒ कं मनो॒ जवि॑ष्ठं प॒तय॑त्स्व॒न्तः। ऋ० ६।९।५ दू॒रङ्गमं ज्यो॑तिषां ज्योतिरेकन्तन्मे॒ मनः॑ शि॒वसं॑कल्पमस्तु। य० ३४।१ इति श्रुतेः।] (ईशानम्) स्वामिनम्, किञ्च (स्वर्दृशम्) स्वः आनन्दः तस्य द्रष्टारम्, अपि च (तस्थुषः) शरीरे अजङ्गमरूपे स्थितस्य अङ्गप्रत्यङ्गजातस्य (ईशानम्) स्वामिनं त्वां वयम् (नोनुमः) भूयो भूयो भृशं स्तुमः, उद्बोधयामः ॥१॥२ अत्र उपमालङ्कारः ॥१॥

भावार्थः - मनुष्यस्यात्मनि महत्यः शक्तयः प्रसुप्ताः सन्ति। सर्वस्यापि शरीरचक्रस्याधिष्ठातारं तं समुद्बोध्य निखिला अपि लौकिक्य आध्यात्मिक्यश्च सिद्धयः प्राप्तुं पार्यन्ते ॥१॥

इस भाष्य को एडिट करें
Top