Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 709
ऋषिः - सौभरि: काण्व: देवता - इन्द्रः छन्दः - काकुभः प्रगाथः (विषमा ककुप्, समा सतोबृहती) स्वरः - पञ्चमः काण्ड नाम -
3

उ꣡प꣢ त्वा꣣ क꣡र्म꣢न्नू꣣त꣢ये꣣ स꣢ नो꣣ यु꣢वो꣣ग्र꣡श्च꣢क्राम꣣ यो꣢ धृ꣣ष꣢त् । त्वा꣡मिध्य꣢꣯वि꣣ता꣡रं꣢ व꣣वृ꣢म꣣हे स꣡खा꣢य इन्द्र सान꣣सि꣢म् ॥७०९॥

स्वर सहित पद पाठ

उ꣡प꣢꣯ । त्वा꣣ । क꣡र्म꣢꣯न् । ऊ꣣त꣡ये꣢ । सः । नः꣣ । यु꣡वा꣢꣯ । उ꣣ग्रः꣢ । च꣣क्राम । यः꣢ । धृ꣣ष꣢त् । त्वाम् । इत् । हि । अ꣣विता꣡र꣢म् । व꣣वृम꣡हे꣢ । स꣡खा꣢꣯यः । स । खा꣣यः । इन्द्र । सानसि꣣म् ॥७०९॥


स्वर रहित मन्त्र

उप त्वा कर्मन्नूतये स नो युवोग्रश्चक्राम यो धृषत् । त्वामिध्यवितारं ववृमहे सखाय इन्द्र सानसिम् ॥७०९॥


स्वर रहित पद पाठ

उप । त्वा । कर्मन् । ऊतये । सः । नः । युवा । उग्रः । चक्राम । यः । धृषत् । त्वाम् । इत् । हि । अवितारम् । ववृमहे । सखायः । स । खायः । इन्द्र । सानसिम् ॥७०९॥

सामवेद - मन्त्र संख्या : 709
(कौथुम) उत्तरार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 22; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 1; खण्ड » 6; सूक्त » 3; मन्त्र » 2
Acknowledgment

पदार्थः -
हे (इन्द्र) परमसहायक परमात्मन् ! (कर्मन्२) कर्मणि। [अत्र ‘सुपां सुलुक्’ इति विभक्तेर्लुक्।] (ऊतये) रक्षार्थम् (त्वा)त्वाम् (उप) उपगच्छामः। द्वितीयः पादः परोक्षकृतः। पश्यत, (सः) असौ (नः) अस्माकम् (युवा) नित्यतरुणः (उग्रः) वीरः परमेश्वरः तम् (चक्राम) आक्रामति। [क्रमु पादविक्षेपे। लडर्थे लिट्] (यः) आन्तरो बाह्यो वा शत्रुः (धृषत्) अस्मान् प्रसहते। [धृष प्रसहने, लेट्।] हे परमेश ! (सखायः) तव सुहृदो वयम् (अवितारम्) रक्षकम्, (सानसिम्) संभजनीयम् (त्वाम् इत् हि) त्वामेव (ववृमहे) वृण्महे ॥२॥

भावार्थः - महाशक्तिरपि जीवः संसारसमराङ्गणे विजेतुं परमात्मनः साहाय्यमपेक्षते ॥२॥

इस भाष्य को एडिट करें
Top