Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 710
ऋषिः - नृमेध आङ्गिरसः देवता - इन्द्रः छन्दः - ककुबुष्णिक् स्वरः - ऋषभः काण्ड नाम -
3

अ꣢धा꣣꣬ ही꣢꣯न्द्र गिर्वण꣣ उ꣡प꣢ त्वा꣣ का꣡म꣢ ई꣣म꣡हे꣢ ससृ꣣ग्म꣡हे꣢ । उ꣣दे꣢व꣣ ग्म꣡न्त꣢ उ꣣द꣡भिः꣢ ॥७१०॥

स्वर सहित पद पाठ

अ꣡ध꣢꣯ । हि । इ꣣न्द्र । गिर्वणः । गिः । वनः । उ꣡प꣢꣯ । त्वा꣣ । का꣡मे꣢꣯ । ई꣣म꣡हे꣢ । स꣣सृग्म꣡हे꣢ । उ꣣दा꣢ । इ꣣व । ग्म꣡न्तः꣢꣯ । उ꣣द꣡भिः꣢ ॥७१०॥


स्वर रहित मन्त्र

अधा हीन्द्र गिर्वण उप त्वा काम ईमहे ससृग्महे । उदेव ग्मन्त उदभिः ॥७१०॥


स्वर रहित पद पाठ

अध । हि । इन्द्र । गिर्वणः । गिः । वनः । उप । त्वा । कामे । ईमहे । ससृग्महे । उदा । इव । ग्मन्तः । उदभिः ॥७१०॥

सामवेद - मन्त्र संख्या : 710
(कौथुम) उत्तरार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 23; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 1; खण्ड » 6; सूक्त » 4; मन्त्र » 1
Acknowledgment

पदार्थः -
हे (गिर्वणः) गीर्भ्यः उपदेशवाग्भ्यः वननीय संभजनीय (इन्द्र) ब्रह्मविद् आचार्यप्रवर ! (अध हि) अथ खलु, वयं शिष्याः (कामे) ब्रह्मसाक्षात्काररूपमनोरथपूर्त्यर्थम् (त्वा) त्वाम् (उप ईमहे) उप गच्छामः, (ससृग्महे) त्वया सह निकटसंसर्गं च प्राप्नुमः। कथम् ? (उदा इव) यथा उदकेन जलमध्येन (ग्मन्तः) गच्छन्तः जनाः (उदभिः) उदकैः संसृज्यन्ते तद्वत्। उक्तं च यथा—आ॒चा॒र्यऽ उप॒नय॑मानो ब्रह्मचा॒रि॑णं कृणुते॒ गर्भ॑म॒न्तः। अथ० ११।५।३। इति ॥१॥ अत्रोपमालङ्कारः। ‘महे, महे’, ‘उदे, उद’ इत्यत्र च छेकानुप्रासः ॥१॥

भावार्थः - यदा जिज्ञासुजनाः समित्पाणयो भूत्वाऽऽचार्यं प्रत्यात्मानं समर्प्य तत्सान्निध्ये वसन्ति, ततो न किमपि निगूहन्ति, तदैव तत्सकाशादपराविद्यां पराविद्यां च प्राप्तुं क्षमन्ते ॥१॥

इस भाष्य को एडिट करें
Top