Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 711
ऋषिः - नृमेध आङ्गिरसः
देवता - इन्द्रः
छन्दः - उष्णिक्
स्वरः - ऋषभः
काण्ड नाम -
7
वा꣡र्ण त्वा꣢꣯ य꣣व्या꣢भि꣣र्व꣡र्ध꣢न्ति शूर꣣ ब्र꣡ह्मा꣢णि । वा꣣वृध्वा꣡ꣳसं꣢ चिदद्रिवो दि꣣वे꣡दि꣢वे ॥७११॥
स्वर सहित पद पाठवाः । न । त्वा꣣ । यव्या꣡भिः꣢ । व꣡र्द्ध꣢꣯न्ति । शू꣣र । ब्र꣡ह्मा꣢꣯णि । वा꣣वृध्वा꣡ꣳस꣢म् । चि꣣त् । अद्रिवः । अ । द्रिवः । दि꣡वेदि꣢वे । दि꣣वे꣢ । दि꣣वे ॥७११॥
स्वर रहित मन्त्र
वार्ण त्वा यव्याभिर्वर्धन्ति शूर ब्रह्माणि । वावृध्वाꣳसं चिदद्रिवो दिवेदिवे ॥७११॥
स्वर रहित पद पाठ
वाः । न । त्वा । यव्याभिः । वर्द्धन्ति । शूर । ब्रह्माणि । वावृध्वाꣳसम् । चित् । अद्रिवः । अ । द्रिवः । दिवेदिवे । दिवे । दिवे ॥७११॥
सामवेद - मन्त्र संख्या : 711
(कौथुम) उत्तरार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 23; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 1; खण्ड » 6; सूक्त » 4; मन्त्र » 2
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 23; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 1; खण्ड » 6; सूक्त » 4; मन्त्र » 2
Acknowledgment
विषयः - अथ परमात्मविषय उच्यते।
पदार्थः -
हे (शूर) वीर, (अद्रिवः) विदारयितुमशक्य अजरामर इन्द्र प्रभो ! (यव्याभिः) कुल्याभिः। [यव्याः इति नदीनामसु पठितम्। निघं० १।१३।] (वाः न) सरोवरादौ उदकं यथा वर्धयन्ति जनाः, तथैव (वावृध्वांसं चित्) वृद्धमपि (त्वा) त्वाम् (ब्रह्माणि) उपासकानां स्तोत्राणि (वर्धन्ति) स्वहृदये समेधयन्ति समाजे वा प्रचारयन्ति ॥२॥ यः पूर्वमेव वृद्धस्तमपि वर्धन्तीति विरोधालङ्कारः। वर्धनेन स्मरणं प्रचारणं च गृह्यते इति विरोधपरिहारः ॥२॥
भावार्थः - सर्वान्तर्यामी ह्रासवृद्धिरहितोऽपि जनैर्विस्मृतत्वाद् नास्तिकत्व—प्रचाराच्च ह्रसित इव भवति। भक्तजनैस्तदीयस्तोत्रगानैः स वर्धनीयः प्रचारणीयश्च ॥२॥
टिप्पणीः -
२. ऋ० ८।९८।८, अथ० २०।१००।२।